SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ २९० .. . साहित्यदर्पले मुक्त्वा कर्णमपेवभीधृतधनुर्वाणो हरेः पश्यतः। माध्मातः कंटुकोक्तिभिः स्वमसकदोविक्रम कोर्तय- अंसास्फोटपटुयुधिष्ठिरमसौ हन्तुं प्रविष्टोऽर्जुनः॥' भयानकामासो यथा 'अशक्नुवन् सोढुमधीरलोचनः सहस्ररश्मेरिव यस्य दर्शनम् । प्रविश्य हेमाद्रिगुहागृहान्तरं निनाय बिभ्यदिवसानि कौशिकः ॥' क्रोधेनेति शेषः ) उन्फुल्ले ( विकसिते ) विशाले (आयते ) लोले (चञ्चले ) नयने (नेत्रे ) यस्य सः । मुहुः - वारं वारम् । कम्पोत्तराङ्गः = कम्पः (वेपथः) उत्तर (प्रचुरः) येषां, तादृशानि अङ्गानि ( हस्तपादाखवयवाः ) यस्य सः । कर्ण - सूतपुत्रं मुक्त्वा = त्यक्त्या, अपेतभीः = अपगतमयः, धृतधनुर्बाणः = (धुताः - गृहोता 'धनुर्वाणाः = कार्मुकशराः येन सः ), कटुकोक्तिभिः = तीक्ष्णवचनः. युधिष्ठिरस्येति शेषः । आध्माता = दग्धः, अंसास्फोटपटुः = अंसयोः ( स्कन्धयोः ) आस्फोटे ( करेगा। पाते ) पटुः (तत्परः) । असौ अर्जुनः, असकत-मुहुर्मुहुः, स्वकीयम् आत्मीय,दोविक्रम बाहुपराक्रम, कीर्तयन्-वर्णयन्, पश्यतो हरेः पश्यन्तं हरिम्, अनादृत्येति भाव, “षष्ठी बाऽनादरे" इति षष्ठी। युधिष्ठिर-स्वकीयाऽग्रज,हन्तु व्यापादयितु', प्रविष्टः-प्राविशदा अत्रार्जुनक्रोधस्य ज्येष्ठप्रातृरूपगुरुगतस्वाद्रौदरसाभासः । शार्दूलविक्रीडितं वृत्तम् । .. भयानकामासमुवाहरति-प्रशक्नुवनिति । शिशुपालवधे महाकाव्ये नारदस्य रुष्पं प्रति कौशिकमयप्रतिपादकं वचनम् । कौशिकः = इन्द्र उलकच । सहसरस्मेः इस- सूर्यस्य इव, यस्य = रावणस्य, दर्शनं = विलोकन, सोद् = मषितुम्, अशक्तुबन् बसहमानः, अत एव अधीरलोचनः = कातरनयनः, बिभ्यत् = त्रस्यन, हेमाऽद्विगुहागृहाऽन्तरं = हेमाद्रेः (सुमेरोः), गुहा (दरी) इव गृह (भवनम् ) तस्य अन्तरं (मध्यम् ), प्रविश्य = प्रवेशं कृत्वा, दिवसानि = दिनानि, निनाय = यापितवान् । वंशस्थं वृत्तम् । अत्र भयस्य देवराजरूपोतमपात्रगतत्वेन भयानकरसाभासत्वंम् । निन्दा करनेपर जब अर्जुन उनको मारनेके लिए तत्पर हुए थे उस समय किसीकी उक्ति है। लाल और विकसित बड़े और चञ्चल नेत्रोंसे युक्त, प्रचर कम्प वाले हस्तपाद आदि अवयवोंसे युक्त, कर्णको छोड़कर निर्भय होकर धनुष और बाणोंको लेकर युधिष्ठिरके तीक्ष्ण वचनोंसे जलकर कन्धोंको ताडन करने में तत्पर होकर अर्जुनने वारं वार अग्ने बाह पराक्रमका बखान करके श्रीकृष्णके देखते देखते अपने बड़े भाई युधिष्ठिरको मारनेके लिए प्रवेश किया। . भयानकाऽऽभास जैसे-शिशुपालवध महाकाव्यमें नारद श्रीकृष्णजीसे इन्द्रका भय बतलाते हैं -उ०-जैसे उल्लू सूर्यको देखने में समर्थ नहीं होता है वैसे ही इन्द्र सूर्यके समान तेजस्वी रावणको देखने में असमर्थ होकर डरते हुए सुमेरु पर्वतके गुफारूप घरके भीतर प्रवेश कर दिन बिताते थे।
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy