________________
२८८
साहित्यदर्पणे
बहुनायकनिष्ठत्वे यथा
‘कान्तास्त एव भुवनत्रितयेऽपि मन्ये
येषां कृते सुतनु ! पाण्डुरयं कपोलः।' अनुभयनिष्ठत्वे यथा-मालतीमाधवे नन्दनस्य मालत्याम् ।
'पश्चादुभयनिष्ठत्वेऽपि प्रथममेकनिष्ठत्वे रतेराभासत्वम्' इति श्रीमल्लोचनकाराः।
तत्रोदाहरणं यथा-रत्नावल्यां सागरिकाया अन्योन्यसंदर्शनात्प्राग्वत्सराजे रतिः।
प्रतिनायकनिष्ठत्वे यथा-व्यग्रीववधे हयग्रीवस्य जलक्रीडावर्णने ।
रतेबहुनायकनिष्ठत्वमुदाहरति-कान्ता इति । कश्चित्पुरुषो बहुनायकासक्तां नायिका बूते । हे सुतनु = हे सुन्दर !, येषां = जनाना, कृते = निमित्ते, अयं सन्नि. कृष्टस्थः, कपोल: = गण्डफलकः, विरहेण, पाण्डः = पाण्डरवर्णः, जात इति शेषः । भुवनत्रितयेऽपि लोकत्रयेऽपि, ते एव-नायकाः कान्ताः=सुन्दराः इति मन्ये विचारयामि, अत्र "कान्ता" इति बहुवचनात् नायिकाया बहुनायकविषय रतिः प्रतीयते ।
रतेरनुभयनिष्ठत्वमुदाहरति-मालतीमाधवे = तदाख्ये प्रकरणे, नन्दनस्य %3D तन्नामकस्य राज्ञो नमसुहृदः एव मालत्या रतिः, न तु मालत्या नन्दने, अतो रतरतुभयनिष्ठत्वम् । . . .
अत्र लोचनकारमतं प्रदर्शयति-पा-अनन्तरम्, उभयनिष्ठत्वेऽपि-नायिकानायकस्थितत्वेऽपि. प्रथम = प्राक्, एकनिष्ठत्वे = नायिकानायकाऽन्यतरस्थितत्वे रतः, भाभासत्वम = शृङ्गाररसाभासत्वमिति, श्रीमल्लोचनकाराः = अभिनवगुप्तपादाः । तत्रोदाहरणं. यति । अन्योन्यदर्शनात्प्राक-मिथोऽवलोकनात प्राक् । वत्सराजे-उदयने ।
रतेः प्रतिनायकनिष्ठत्वं प्रदर्शयः-हयग्रीववधे-तदाख्यमहाकाव्ये, हयग्रीवस्यतदाख्यदत्यस्य ।
रतिके बहुत नायकोंमें रहनेसे शृङ्गाराभासका उ०-कोई पुरुष बहुतेरे नायकोंमें आसक्त नायिकासे कहता है-हे सुन्दर ! मैं तीनों लोकोंमें उन्हें ही सुन्दर समझता हूं, जिनके लिए तुम्हारे कपोल पाण्डवर्णवाले हो गये हैं।
रतिके उभयनिष्ठ न होनेसे (नायिका और नायक दोनोंमें न रहनेसे) मृङ्गाराभास - जसे मालतीमाधवमें नन्दनकी मालतीमें रति (अनुराग)। पीछे रतिके दोनोंमें रहनेपर भी पहले एक हीमें रहनेसे शृङ्गारामास होता है ऐसा श्रीमल्लोचनकार(अभिनवगुप्ताचार्य ) का मत है। उसमें उदाहरण रत्नावलीमें सागरिकाकी परस्पर दर्शनके पहले ही वत्सराज ( उदयन ) में रति ।
रतिके प्रतिनायकमें रहनेपर शृङ्गाराभास जैसे-हयग्रीववधमें हयग्रीवकी जलक्रीडाके वर्णनमें।