________________
तृतीयः परिच्छेदः ।
उत्पात्रगतत्वे भयानके ज्ञेयमेवमन्यत्र । .. तत्र रतेरुपनायकनिष्ठत्वे यथा मम'स्वामी मुग्धतरो वनं घनमिदं, बालाऽहमेकाकिनी
क्षोणीमावृणुते तमालमलिनच्छाया तमःसन्ततिः । तन्मे सुन्दर ! मुश्च कृष्ण ! सहसा वत्मेति गोप्या गिरः
श्रुत्वा तां परिरभ्य मन्मथकलासक्तो हरिः पातु वः॥' भयानकेऽनौचित्यं प्रतिपादयति-उत्तमपात्रगतत्वे श्रेष्ठपात्रगतत्वे सति, भयस्येति शेषः, भयानकेऽनौचित्य भवति । एवम् = इत्थम्, अन्यत्र = स्थानान्तरे, प्रकृतिव्यव. हारादीनामनौचित्यमूह्यमिति भावः ।।
तत्रोपनायकसंस्थायां रतो शृङ्गाराभासमुदाहरति-स्वामीति ।
सन्ध्यासमये मार्गरोधकं श्रीकृष्णं प्रति कस्याभिद् गोप्या उक्तिरियम्, हे कृष्ण !, स्वामी-मम परिणेता, मुग्धतर: अतिमूढः, अतो ममः कामतुष्टिजननेऽयोग्य इति भावः। इदम् = एतद, वनम् = अरण्यं, धन = लतागुल्मादिना निबिडम् । अहम् एकाकिनी = एकका, बाला = प्रोढिरहिता, कोऽप्यन्यो जनो नाऽस्ति, इत्यतो विलम्बो न कार्य इति भावः । तमालमलिनच्छाया = तापिच्छमलीमसकान्तिः, तमःसंहतिः = तिमिरपक्तिः, क्षोणी = भवम्, आवृणोति = आच्छादयति । तत् = तस्मात् कारणात्, हे सुन्दर हे मनोहर, कृष्ण = गोपाल !, सहसा अतक्ति एव, वत्म = मार्ग, मुञ्च = त्यज, इतिएवं, गोप्या: आभीरनार्याः, गिर:= वाचः, श्रुत्वा = आकर्ण्य, ता = गोपी, परिरभ्य :आलिङ्गय, मन्मथकलाऽऽसकः । कामकलाऽऽसक्तियुक्तः, समागमतत्पर इति भावः । हरिः = श्रीकृष्ण:, वः = युस्मान् पातु-रक्षतु । शार्दूलविक्रीडितं वृत्तम् । अत्र "स्वामी मुग्धतर" इत्यनेन परोढाया नायिकाया उपनायकरूपकृष्णसंस्थाया रतेः प्रतिपादनात शृङ्गाररसाभासत्वम् ।
भयानको अनौचित्य-उत्तम पात्र में भयके रहनेपर भयानक रसमें अनौचित्य होता है । इसी तरह अन्यत्र भी जानना चाहिए। · अनौचित्य होनेपर रसाभास होता है।
उपनायकमें रतिके रहनेपर शृङ्गाराभास-सन्ध्याकालमें श्रीकृष्णके मार्गको रोकनेपर कोई गोपी कहती है । मेगा : ज्यादा अल्हड़ है, यह वन धना है, मैं युवती हूं तथा अकेली हूँ। तमालके-समान मलिन कान्तिवाली अन्धकारकी पक्ति पृथ्वीको आच्छादित कर रही है। इस कारणगे हे गुन्दर ! हे कृष्ण ! मरे मार्ग को शीघ्र छोड़ी, गोपीकी ऐसी बात सुनकर उसको आलिङ्गन कर कामकलामें आसक्त भगवान .. श्रीकृष्ण तुम्हारी रक्षा करें।