SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ २८२ साहित्यदर्पणे - वर्तमाना अपि राजानुगतविवाहप्रवृत्तभृत्यावदापाततो. यत्र प्राधान्येनाभिव्यक्ता व्यभिचारिणो देवमुनिगुरुनृपादिविषया च रतिरुबुद्धमात्रा विभाषादिमिर परिपुष्टतया रसरूपतामनापद्यमानाश्च स्थायिनी भाषा भाषशब्दकाच्याः। तत्र व्यभिचारी यथा'एवंवादिनि देवर्षों-' (पृ० २०९) इत्यादि । अत्रावहित्था देवविषया रतिर्यथा मुकुन्दमालायाम्एव, वर्तमाना अपि विद्यमाना अपि, राजाऽनुगतविवाहप्रवृत्तभत्यवत = राजाऽनुगतः (भूपालाऽनुसृतः ) विवाहप्रवृत्तः, ( परिणयतत्परः ) यो भत्यः ( राजाऽनुचरः ) तद्वत् यत्रयस्मिन् स्थले, प्राधान्येन प्रधानतया, अभिव्यक्ता: व्यञ्जनावत्या प्रतिपादिताः, व्यभिचारिणः = सञ्चारिभाषा निदादयः, एवं च देवमुनिगुरुनुपादिविषया = सुरऋष्याचार्य राजादिविषया, रतिः = स्थायिभावः, उबुढमात्रा = प्रादुर्भूतमात्रा, विभावादिभिः = भावः, अपरिपुष्टतया. = पुष्टिमप्राप्तत्वेन, रसरूपता = रसस्त्ररूपताम्, अनापद्यमानान=अप्राप्नुवन्तश्च, स्थायिनो भावाः = रत्यादिस्थायिभावाः, भावशब्दवाच्या:=भावशब्देन प्रतिपाद्याः, भवन्तीति शेषः । अयं भावः । राज्ञः कस्यचिद् भृत्यस्य विवाहे राजा समागतोऽपि तत्र परिणेतु त्यस्यैव प्राधान्यं, प्रभुत्वेऽपि रास्तत्र न प्राधान्यं तथैव रसेन सह वर्तमानस्य व्यभिचारिभावस्य प्राधान्यं, विभावादिभिरपरिपुष्टत्वावसस्य न प्राधान्यमिति भावः । तत्र प्रधानव्यभिचारभावमुदाहरति-एवं भाववादिनेति। कुमारसंभवस्थं पद्यमे, तदा पार्वतीयाचनार्थ हिमालयसकाशे शङ्का दूरत्वेनागतस्याऽङ्गिरसो वचनाऽनन्तरं पार्वत्या अहित्थाया वर्णनमिदम् । अस्य प्रसङ्गस्य पूर्णश्लोकोऽयम्-(पृ० २०९) . "एववादिनि देवी पार्वे पितुरधोमुखी। लीलाकमलपत्त्राणि गणयामास पार्वती ।।" (कु. सं. ६.८४ )। अत्र शिवप्रसङ्गजातहर्षसूचकस्य मुख रागादेर्लज्जया गोपनमवहित्था सा चाधोमुखव्यङ्ग पलज्जया हेतुना लीलाकमलपत्रगणनरूपन्यापाराऽऽसक्त्या च झटिति प्रतीयते इति तस्याः एव प्रधानत्वं, विभावादीनामपरिस्फुटतया शृङ्गाररसस्याप्रधानत्वम् । अनुगत ओर विवाहमें तत्पर भृत्यके समान सरसरी निगाहसे प्रधानके समान प्रतीत होनेवाले व्यभिचारिभव मौर देवता, मुनि, गुरु और राजा आदिमें रहनेवाली रति २ प्रकटमात्र होकर विभाव मादिसे परिपुष्ट न होनेसे रसरूपको प्राप्त न होनेवाले रति आदि स्थायिभाव ३ ये सब भाव सम्दसे कहे जाते हैं। उनमें १ प्रधानके समान प्रतीत होने वाला व्यभिचारी भाव जैसे-"एव वाहिनि देवर्षी" (पृ० २०९) इसमें रस प्रधान नहीं है अहित्यारूप व्यभिचारी भाव प्रधान है। २-देवता विषयक रति जैसे मुकुन्दमालामें भक्त हरिसे प्रार्थना करता है
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy