SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ . तृतीयः परिच्छेदः २६१ रसनधर्मयोगित्वाद्भावादिष्वपि रसत्वमुपचारादित्यभिप्रायः । भावादय उच्यन्ते सञ्चारिणः प्रधानानि देवादिविषया रतिः ।। २६० ॥ उद्बुद्धमात्रः स्थायी च भाव इत्यभिधीयते। 'न भावहीनोऽस्ति रसो न भावो रसवर्जितः। परस्परकृता सिद्धिरनयो रसभावयोः॥ इत्युक्तदिशा परमालोचनया परमविश्रान्तिस्थानेन रसेन सहैव रसं विहाय भावा अपि रसनाद्धेतोः लक्षणया एव रसपदगच्याः, न तु मुख्यवृत्त्या रत्यादिस्थायिभावानामभावेनेति भावः ॥ भावादीनुद्दिशति-सञ्चारिण इति । प्रधानानि संचारिणः = रसान्मुख्यतरा: व्यभिचारिभावाः, देवादिविषयाः = सुरादिविषयाः, आदिपदेन मुनिगुरुनूपपुत्रादीनां परामर्शः, रतिः = अनुरागः ।। २६० ॥ ___उबुद्धमात्र:=प्रादुर्भूतमात्रः, ने पुनविभावादिभिः परिपुष्टिमानीत इति भाव । स्थायी = रत्यादिश्व, "भाव" इति, अभिधीयते = कथ्यते । - सञ्चारिभावानां प्रधानत्वं प्राचीनोक्त्या चोपपादयति-न भावहीन इति । रसः = शृङ्गारादिः, भावहीनः निर्वेदादिष्यभिचारिभावरहितः, न अस्ति । निवेदादि. व्यभिचारिभावैरेव रसस्य परिपोष इति भावः । तथा भावः निर्वेदादिव्यंभिचारिभाव:, रसबजित:-शङ्गारादिरसरहितः, न अस्ति, रससाहित्येनैव व्यभिचारिभावानामपि परिपोषो भवतीति भावः । अतः अनयोः पूर्वोक्तयोः, रसभावयोः-शृङ्गारादिरसनिदादिव्यभिचारिभावयोः, परस्पर कृता-अन्योन्यविहिता, सिद्धिः निष्पत्तिः ।। ___ इत्युक्त दिशा-इति प्रतिपादित दिशया, परमालोचनया = सूक्ष्मविचारेण, परमविधान्तिस्थानेन उत्कृष्ट विश्रमाऽवस्थानेन, रसेन = शृङ्गारादिना, सह एव=समम् रसन (आस्वादन ) धर्मके साथ सम्बन्ध होनेसे भाव आदिमें भी गोणी लक्षणासे "रस" शब्दसे प्रयोग किया जाता है, यह अभिप्राय है। भाव प्रादिका स्वरूप-रससे मुख्यतर सञ्चारिभाव, देवता आदिमें रहनेवाली रति ( अनुराग) ॥२६॥ ____ और उबुद्धमात्र ( केवल प्रादुर्भूत, विभाव आदिसे अपरिपुष्ट ) रति आदि स्थापोभावको भी "भाव" कहते हैं ।। . इसी विषयको प्राचीन उक्तिसे पुष्ट करते हैं-निर्वेद आदि भावके विना शृङ्गार आदि रस नहीं और शृङ्गार आदि रसके विना निर्वेद आदि भाव नहीं, अतः इन रस और भावोंकी सिद्धि परस्परमें एकसे दूसरेकी होती है। ऐसा कहनेके अनुसार बच्छी तरहसे विचार करनेसे परम विश्रामस्थान रसके साथ ही रहते हुए भी राजासे
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy