________________
२०
साहित्यदर्पणे
आद्यः शृङ्गारः । एषां च समावेशप्रकारा वक्ष्यन्ते । कुतोऽपि कारणात्क्वापि स्थिरतामुपयन्नपि ।। २५८ ।।
उन्मादादिर्न तु स्थायी, न पात्रे स्थैयमेति यत् । यथा विक्रमोर्वश्यां चतुर्थेऽङ्के पुरूरवस उन्मादः।।
रसमावौ तदामासौ भावस्य प्रशभादयौ ।। २५९ ॥ सन्धिः शबलता चेति सऽपि रसनाद्रमाः।
एषां = विरोधिनां रसानां, समावेशप्रकाराः = स्थापनप्रकाराः, वक्ष्यन्ते = अभिधास्यन्ते, सप्तमपरिच्छेदे इति भावः ।
ननु उन्मादादीनां स्थायित्वं शृङ्गारादो कथं नोक्तमिति आशङ्कय समाधत्तेकुतोऽपीति । कुतोऽपि कारणात्-कस्माच्चिदपि हेतोः, स्थिरतां स्थायिता, कंचिस्कालं यावदिति शेषः । उपपन्नपि = प्राप्नुवन्नपि ।। २५८ ।।
उन्मादादिः - उन्मादप्रभूतिः भावः, आदिपदेन निर्वेदादीनां परामर्शः । न तु स्थायी = स्थायिभावपदवाव्यस्तु न भवति, अत्राऽर्थे हेतुमाह-न पात्रे इति । यत् = यस्मात्कारणाद, सः - उन्मादादिः, पात्रे = नायकादो, स्थैर्य-स्थिरत्व, स्थायिभावस्व, न एति = न प्राप्नोति, उन्मादादिः रत्यादिवद् बहुकालं यावत्स्थयं न प्राप्नोति अतः स न स्थायी भाव इति भावः।
उदाहरति-यथा विक्रमोर्वश्यां = त्रोटके, चतुर्थेऽङ्के, पुरूरवस: = नायकस्य उन्मादः, चतुर्षाऽहं यावदेव तस्य स्थितेः स न स्थायिभावत्व प्राप्नोतीति भावः।
रसनधर्मसम्बत्वाद् भावादीनामपि रसस्व परिगायनि-रसभावाविति । रसमावो = रसः ( शृङ्गारादिः) भावः ( सञ्चार्यादिः ), तदाभासो = रसाभासभावा. भासो, भावस्य प्रशमोदयो = भावप्रशमो भावोदयश्च ।। २५९ ।।
सन्धिः भावसन्धिः, शबलता-भावशबलता च, सर्वेऽपि पूर्वोक्ता: सकला अपि, रसनादरसनधर्मयोजिस्मत,दश्यश्रव्यकाव्ययोरास्वादजननाद, रसाः-रसपदव्यपदश्याः।
इन विरोधी रसोंके समावेशके प्रकार (सप्तम परिच्छेद में) कहे जायेंगे। किसी कारणसे किसी पात्रमें कुछ समय तक स्थिर होता हुआ भी ।। २५८ ॥
उन्माद आदि (व्यभिचारिभाव) स्थायिभाव नहीं होता है क्योंकि वह (उन्माद बादि) पात्रमें आदिसे अन्ततक स्थिर नहीं रहता है। जैसे विक्रमोर्वशीमें पुरूरवाका उन्माद (कुछ समय तक रहनेपर भी स्थिर नहीं है, अतः स्थायिभाव नहीं है)।
रसन ( आस्वादन) किये जाने वालोंके भेद बतलाते हैं-रस, भाव, रसा. भास, भावाभास, भावप्रशम भावोदय ॥ २५९॥ ... भावसन्धि, भावशवलता ये सब दृश्य और श्रव्य काव्यमें रसन ( बास्वादन )को उत्पन्न करनेसे "रस" पसे व्यवहार किये जाते हैं।