SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ तृतीयः परिच्छेदः एतेषां च रसानां परस्परविरोधमाह आद्यः भयानकेन करुणेनापि हास्यो विरोधभाक् । करुणो हास्यशृङ्गाररसाभ्यामपि तादृश: ।। २५५ ।। रौद्रस्त हास्यशृङ्गारभयानकरसैरपि । करुणवीभत्सरौद्रवीरभयानकैः ॥ २५४ ॥ 1 भयानकेन शान्तेन तथा वीररसः स्मृतः ।। २५६ ।। शृङ्गारवीर रौद्र रूप हास्यशान्तैर्भयानकः शान्तस्तु वीरशृङ्गाररौद्रहास्यभयानकैः शृङ्गारेण तु बीभत्स इत्याख्याता विरोधिता । ।। २५७ ।। = रसानां मिथो विरोध प्रदर्शयति - प्राद्य इति । आद्यः प्रथमः, शृङ्गाररस इत्यर्थः, करुणबीभत्सरौद्रवीरभयानकं रसः, "विरोधभाक् " इति परस्थितेन पदेन सम्बन्धः । विरोधं भजतीति विरोधभाक् । शृङ्गारस्य करुणेन, बीभत्सेन रौद्रेण, वीरेण भयानकेन च रसेन विरोध इति भावः ।। २५४ ।। भयानकेनेति । हास्यः = हास्यरसः, भयानकेन करुणेन अपि रसेन विरोधभाक् । तथैव करुणः करुणरसः, हास्यशृङ्गाररसाभ्याम् अपि तादृशः = विरोधभाक् ।। २५५।। रौद्र इति । रौद्रस्तु = रौद्ररसस्तु हास्यशृङ्गारभयानकरसः अपि विरोधभाक् । तथा वीररसः भयानकेन शान्तेन च रसेन, तथा विरोधभाक् स्मृतः ॥ २५६ ॥ भयानकः शृङ्गारवीररौद्राख्य हास्यशान्तः, विरोधभाक् । एवं शान्तस्तु वीरशृङ्गाररोद्रहास्यभयानकै रसैः विरोधभाक् ॥ २५७ ॥ बीभत्स: शृङ्गारेण, विरोधभाक् इति शेषः । इति = इत्थं विरोधिता = रसानां मिथो विरोधभाव:, आख्याता = आख्यायि || २७९ = इन रसोंका परस्परमें विरोध कहते हैं- -आद्य ( शृङ्गार) रसका करुण, बीभत्स, रौद्र, वीर और भयानक रससे विरोध है ।। २५४ ॥ हास्य रसका भयानक और करुणसे भी विरोध है । करुण रसका हास्य भर शङ्गाररससे विरोध है ।। २५५ ।। रौद्र रसका हास्य शृङ्गार और भयानक रससे विरोध है । वीर रसका भयानक और शान्त से विरोध है ।। २५६ ।। भयानक रसका शृङ्गार, वीर, रौद्र, हास्य और शान्तसे विरोध है । शान्त रसका वीर, शृङ्गार, रौद्र, हास्य और भयानकसे विरोध है ।। २५७ ।। बीभत्स रसका शृङ्गारके साथ विरोध कहा गया है ।
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy