________________
२७८
साहित्यदर्पणे
पुलकानन्दबाष्पाचा अनुभावाः प्रकीर्तिताः । सञ्चारिणोऽनिष्टशवाहर्षगर्वादगे मताः ॥ २५३ ।।
पमगर्भच्छविवर्णो देवतं लोकमातरः । यथा'यदाह धाच्या प्रथमोदितं वचो ययौ तदीयामवलम्ब्य चाङ्गलाम् । अभूच नम्रः प्रणिपातशिक्षया पितुर्मुदं तेन ततान सोऽर्भकः ।।'
पुलकाऽऽनन्दबाष्पाद्या: = पुलकः : रोमाञ्चः ) आनन्दब ष्पम् (हर्षाs. श्रुपातः ), तदाद्याः अनुभावाः, प्रकीर्तिताः = व्याख्याताः।
वत्सलरसस्य सञ्चारिभाग्निदिशति-संचारिण इति। अनिष्टशङ्काहर्षगर्वादयः = अनिष्टशङ्का ( पुत्रादीनामरिष्टाशङ्का ) हर्षः ( आनन्दः ), गर्वः ( अमिमानः ), तदादयः, सञ्चारिणः = व्यभिचारिभावाः, मताः = अभिमताः ।। २५३ ।।
वत्सलरसस्य वर्णदैवतं वर्णयति-पद्मवर्णच्छविः = कमलकोशकान्तिः, वर्णः, दैवतम् = अधिदेवः, लोकमातरः = ब्रहम्यादयः सप्त मातरः ।
वत्सलरसमुदाहरति-यवाहेति । रघुवंशस्थ रघुशैशववर्णनमिदम् । सः, अर्भक:बाल, रघुरिति भावः, धात्र्या - उपमात्रा, प्रथमोदितं - प्रथमम् ( प्राक् ) उदितम् (उक्तम् ), वचः = वचनं, यत्, माह-अवदत् । तदीयां = धात्रीसम्बन्धिनीम्, अगुली च = करशाखां च. अवलम्ब्य = आलम्ब्य, यत, ययो - जगाम । प्रणिपातशिक्षया = प्रणामोपदेशेन, नम्रश्न, = नमनशीलच, अभूत् == अभवत्, तेन = कर्मसमूहेन, सः = पूर्वोक्तः, अर्भकः = बाल:. घरिति भावः । पितुः = जनकस्य, दिलीपस्येत्यर्थः । मुद= हर्ष, ततान = विस्तारितवान् ।
. अत्र दिलीपवत्सलता स्थायी भावः, रघुरालम्बनविभावः, तथाविधभाषणादिक. मुद्दीपनविभावः, आलिङ्गनादिकमनुभावः, हर्षादयः सञ्चारिभावः । एतेषां समवायेन सामाजिकानां वत्सलरस आविर्भवति । वंशस्थं वृत्तम् ॥
. रोमाञ्च, हर्षावका पतन आदि अनुभाव कहे गये हैं । अनिष्टको शङ्का, हर्ष और गर्व आदि संचारिभाव माने गये हैं ।। २५३ ॥
कमलके कोशके समान इसका वर्ण होता है, ब्राह्मी आदि सात माताएं इसकी देवताएं मानी गई हैं।
उ.-रघुवंशमें रघुकी शैशव-अवस्थाका वर्णन है । वह बालक ( रघु ) घायसे पहले कहे गये वचनको कहता था और उसकी उंगलीको पकड़कर चलता था, प्रणाम करनेकी शिक्षाके अनुसार नम्र भी होता था, ऐसे कर्मसे उसने पिताके हर्षको बढ़ाया।