SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ तृतीयः परिच्छेदः २७७ प्रसीदेति क्रोशन् निमिषमिव नेष्यामि दिवसान् ।' अथ मुनीन्द्रसंमतो बत्सलः स्फुटं चमत्कारितया वत्सलं च रसं विदुः । स्थायी वत्सलतास्नेहः, पुत्राद्यालम्बनं मतम् ॥ २५१ ॥ उद्दीपनानि तच्चेष्टा विद्याशौर्यदयादयः । आलिङ्गनाङ्गसंस्पर्शशिरथुम्बनमीक्षणम् ॥२५२ ॥ त्रिलोचन !, प्रसीद = प्रसादं कुरु, इति = एवं, क्रोशन = आह्वयन, दिवसान = बहुनि दिनानि, निमिषम् इव = निमेषपातपरिमितमल्पं मणम् इव, "कालाऽध्वनो. रस्यन्तसंयोगे" इति कालाऽत्यन्तसंयोगे द्वितीया । नेष्यामि = यापयिष्यामि । शिखरिणी वृत्तम् । अत्राहकारराहित्येन नो धर्मवीरो रसः सचार्यादिभिः परिपुष्टेरभावान्न च शान्तरसः, शिवविषयं रतिभावमात्र प्रतीयते। ____ अथ भरतमुनिसम्मतं वत्सलरसमुदाहरति-स्फुटमिति । स्फुटं = व्यक्तं यया तया, चमत्कारितया = चमत्कारजनकत्वेन, वत्सल च रसं = वत्सलनामकं, रस, विदुः = जानन्ति, विद्वांस इति शेषः । वत्सलतास्नेहः = वत्सलतारूपः स्नेहः, स्थायीस्थायी भावः । पुत्रादि = तनयादि, आदिपदेन तनयाघ्रात्रादीनां परिग्रहः । आलम्बनं मतम् = आलम्बनविभावः संमतः ।। २५१ ।। वत्सलस्योद्दीपनविभावाग्निदिशति-उद्दीपनानीति। तच्चेष्टा-पुत्रादिचेष्टा, विवाशौर्यदयादयः = विद्या ( वेदादिशास्त्रज्ञानम् ) शौर्य (शूरता) दयादयः (करुणादयः ) उद्दीपनानि = उद्दीपनविभावाः । ___ वत्सलरसस्यानुभावानिदिशति-पालिङ्गानालसंस्पर्शशिरश्चुम्बनम् । आलिङ्गनम् ( आश्लेष: ), अङ्गसंस्पर्शः (देहाऽवयवाऽऽमर्शनम् ), शिरश्चुम्बनम्. (मस्तकचुम्बनम् ; ईक्षणम् अवलोकनम् ।। २५२ ।' हे त्रिनयन ! "आप प्रसन्न हों" ऐसा कहता हुआ कई दिनोंको भी एक निमेषके समान बिताऊंगा। मुनीन्द्र (भरत) सम्मत वत्सलरस-स्पष्ट रूपसे चमत्कारी होनेसे वत्सलको भी रस मानते हैं, इसमें वात्सल्य स्नेह स्थायी भाव और पुत्र आदि आलम्बन विभाव माने गये हैं ॥ २५१॥ पुत्र आदिकी चेष्टा, विद्या, शूरता और दया आदि उद्दीपन विभाव है। बालिङ्गन, अङ्गस्पर्श, शिरका चुम्बन, देखना ॥ २५२ ॥
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy