________________
तृतीयः परिकलेदः ।
२७५
युक्तवियुक्तदशायामवस्थिता यः शमः स एव यतः । रसतामेति तदस्मिन् सञ्चार्यादेः स्थितिश्च न विरुद्धा ॥२५०॥
यश्चास्मिन्सुखाभावोऽप्युक्तस्तस्य - वैषयिकसुखपरत्वान्न विरोधः । उक्तं हि
'यच्च कामसुखं लोके यच्च दिव्यं महत्सुखम् । युक्तवियुक्तवशायामिति । युक्तवियुक्तदशायां = युक्तः, समाधिमान योगीति भावः, तद्दशायाम् । वियुक्तः = योगरहितः, संसारीति भावस्तद्दशाणम् । एवं च युक्तवियुक्तदशाया = युक्तश्चाऽसौ वियुक्तः । युक्तोऽपि (योगयुक्तोऽपि ) वियुक्तः ( कर्मशील: ), "कर्मणैव हि संसिद्धिमास्थिता जनकादयः । लोकसंग्रहमेवाऽपि संपश्यन्कर्तुमर्हसि । (गीता० ३-२० ), इति भगवदुक्तेः । युक्तवियुक्तस्य दशा, तस्याम् । यः शमः अवस्थितः, स एव शमो यतः रसतां शान्तरसभावम्, एति = प्राप्नोति, तत= तस्मात्कारणात, अस्मिन् = शान्तरसे, सञ्चार्यादेः = व्यभिचार्यादिभावस्य, आदिपदेन आलम्बनोद्दीपनविभावानुभावानों परामर्शः, स्थितिः = अवस्थानं, न विरुद्धा = नो विरोधयुक्ता, निवेदरूपसञ्च रिभावस्थितिरस्मिन्नस्त्गेति भावः ॥ २५० ॥
यच्चेति । अस्मिन् = शान्तरसे । तस्य = सुखाऽभावस्य, वैषयिकसुखपरत्वात इन्द्रियजन्यसुवपरत्वात्, न विरोधः ।
यच्चेति । लोके = अस्मिन् लोके, यच्च कामसुख = प्रमदासहवासादिजन्यं विषयसुखम्, ऐहलौकिकमिति भावः । यच्च दिव्यं = स्वर्गवासादिजं, महत सुखम् ।
इस प्राशङ्काका उत्तर देते हैं-युक्त = योग ( समाधि ) युक्त अर्थात योगी, उसकी अवस्थामें, वियुक्त = योगरहित अर्थात् संसारी उसकी अवस्थामें, एवम् युक्तवियुक्त = युक्त ( योगी ! होकर भी वियुक्त (कर्मशील) "कर्मणव हि संसिद्धिमास्थिता जनकादयः । लोकसंग्रहमेवाऽपि संपश्यनकतुं महंसि" (गीता ३-२० ) ऐसी भगगन् श्रीकृष्णकी - उक्तिसे युक्त ( योगी ) होकर भी लोकसंग्रहके लिए फलाशाकी अपेक्षा न कर शास्त्रोक्त कर्मके अनुष्ठानमें तत्पर राजर्षि जनक आदि उनकी अवस्थामें भी जो शम ( स्यायिभाव ) है वह शान्तरसके भावको प्राप्त करता है, अतः शान्तरसमें संचारी आदि, आदि पदसे आलम्बन उद्दीपन विभाव और अनुभाव इनकी स्थिति में कुछ भी विरोध नहीं है ॥ २५० ॥
शान्तरसमें जो मुखका अभाव कहा है वह सुख विषयजन्य सुख है उसीका अमाव होता है अतः विरोध नहीं है।
वा भी है लोकमें जो विषयजन्य सुख है और जो दिव्य ( स्वर्गवास आदिसे