SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ साहित्यदर्पणे ૪ शान्तस्तु सर्वाकारेणाहङ्कारप्रशमैकरूपत्वान्न तत्रान्तर्भावमईति । ततः नागानन्दादेः शान्तरसप्रधानत्वमपास्तम् । ननु - 'न यत्र दुःखं न सुखं न चिन्ता न द्वेषरागौ न च काचिदिच्छा । रसः स शान्तः कथितो मुनीन्द्रेः सर्वेषु भावेषु समप्रमाणः ॥' इत्येवंरूपस्य शान्तस्य मोक्षावस्थायामेवात्मस्वरूपापत्तिलक्षणाय प्रादुर्भावात्तत्र सचार्यादीनामभावात् कथं रसत्वमित्युच्यते अहङ्कारोपणमः = दर्पनिवृत्तिः, न दृश्यते । एतद्वैपरीत्येन शान्तस्तु - शान्तरसंस्तु सर्वाकारेण = सर्वप्रकारेण, अहङ्कारप्रशमं करूपत्वात् - अहङ्कारनिवृत्तिप्रधानस्वरूपत्वात् तत्र = दयावीररसे धर्मवीररसे चं, न अन्तर्भावम् अर्हति = न अन्तभवतीति भावः अतश्च=अस्मात्कारणाच्च, नागानन्दे शान्तरसप्रधानत्वम् अपास्तं = निराकृतम् । केषांचिन्मतेन शान्तस्य रसत्वेऽनुपपति प्रदर्शयति- न तत्रेति । यत्र = 1 शान्ते दुःखं न सुखं न, द्वेषरागो ( द्वेषः = अप्रीतिः, रागः, अनुरागः ) न काचित् इच्छा न ततश्व सर्वेषु = सकलेषु भावेषु पदार्थेषु, लोष्ठकाञ्चनादिविभावेष्विति भावः । सम प्रमाणः ( समं = तुल्यं, प्रमाणं = प्रतीतिः यस्य सः ), समदशित्वमिति भावः । मुनीन्द्रः = भरतादिभिः सः शान्तो रसः कथितः ॥ अत्र "शमः प्रधान" एतादृशः पाठो न मनोरमः, "क्लीने प्रधानं प्रमुख प्रवेकाऽनुतमोत्तमाः । इति कोशाऽनुशासनता प्रधानशब्दस्य नपुंसकलिङ्गत्वात् । "समप्रधान" इति पाठेऽपि शमसत्त्वे सत्यभावः । अतः इत्येवरूपस्य शान्तस्य = वादिना रसस्वेनाऽभि. मतस्य, आत्मस्वरूपापत्तिलक्षणायां = स्वस्वरूपाऽवाप्तिस्वरूपायां, मोक्षाऽवस्थायां = मुक्तिदशायां प्रादुर्भावात् = आविर्भावात्, तत्र = शास्त्रे, सञ्चार्यादीनां = व्यभिचारि भावादीनाम् अत्रादिपदेन आलम्बोद्दीपनानुभावानामपि परामर्शः, अभावात् = राहित्यात् कथं रसत्वम् ? इत्याशङ्कय व समाधत्ते . आदिमें अन्तर्भूत होने के लिए योग्य नहीं है। इस कारणसे नागानन्द आदि शान्तरसप्रधान है यह कथन खण्डित हो जाता है । शान्तको रस न माननेवाले आचार्यके मतको उपस्थित करते हैं जिसमें न दुःख, न सुख, न चिन्ता, न द्वेष, न राग और न किसी प्रकारकी इच्छा ही रहती है अतः समस्त पदार्थों में तुल्य प्रतीतिवाले उसको भरत आदि मुनीन्दोंन 'शान्तरस' कहा है। ऐसे स्वरूपवाले शान्तरसकी स्वस्वरूपापत्तिरूप मोक्षावस्था में प्रादुर्भाव होने से, वैसे शान्त में सचारी आदि भावोंके न होनेसे कैसे रसत्वका उपपादन होगा ?
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy