________________
२७०
यथा
साहित्यदर्पणे
स्तम्भः स्वेदाऽथ रोमाश्चगद्गद खरसंभ्रमाः । तथा नेत्रविकासाद्या अनुभावाः प्रकीर्तिताः ।। २४४ ॥ बितर्कावेगसंभ्रान्तिहर्षाद्या व्यभिचारिणः ।
'दोर्दण्डाति चन्द्रशेखर धनुर्दण्डाभको चतष्टंकारध्वनिरार्य बालचरितप्रस्तावनाडिण्डिमः । द्राक्पर्यस्त कपाल संपुट मिलद्ब्रह्माण्डभाण्डो दर
अद्भुतरसस्याऽनुभावानिदिशति - स्तम्भ इति । स्तम्भः = गत्यभावः, स्वेदः = घर्मजलं, रोमा खगद्गदस्वरसंभ्रमाः = रोमाश्वः (रोमकण्टकः ), गद्गदस्वरः ( अस्पष्ट - -स्वरः ) संभ्रमः ( त्वरा ), तथा च नेत्रविकासाद्या: नयनविकाशप्रभृतयः, "अनुभावाः” : प्रकीर्तिताः = वर्णिताः ॥ २४४ ॥
अद्भुतरसस्य व्यभिचारिभावानिदिशति -वितर्काऽऽ वेग संभ्रान्तिहर्षाद्याः = 'वितर्कः ( विविधस्त : ) कल्पना, आवेग ( जवाऽतिशय ) संभ्रान्तिः ( भ्रमः ), हर्ष (आनन्द) इत्यादयो व्यभिचारिणः = व्यभिचारिभावाः ।।
---
अद्भुतरसमुदाहरनि - दोर्दण्डाऽवितेत्यादिः । महावीरचरिते रामकृतहर धनुर्भङ्गश्रुत्वा लक्षणस्योक्तिरियम् । दोर्दण्डाऽश्चित चन्द्र शेखरधनुर्दण्डावभङ्गोद्यतः= दोर्दण्डाभ्याम् (भुजदण्डाभ्याम्) अश्वितम् ( उत्क्षिप्तम् ) यत् चन्द्रशेखरधनु: ( हरचापम् ) तस्य अवभङ्गेन ( आमदनेन ) उद्यत: ( उद्गतः ) | आर्यबालचरित' प्रस्तावनाडिण्डिभः = आर्यस्य ( पूज्यस्य, श्रीरामस्य ) यत् बालचरितं (शिशुचरित्रम् ) तस्य या प्रस्तावना ( आरम्भ: ), तत्र डिण्डिम : ( वाद्यविशेषः, प्रकाशक इति शेषः ) | · तादृशो यष्टङ्कारध्वनि : ( टङ्कुतिशब्द: ) । द्राक्पर्यस्तेत्यादिः = द्राक् ( शीघ्रम् ) पर्यस्ते ( विक्षिप्ते ) ये कपालसं पुटे ( कपालोऽधोभागी ) ताभ्यां मिलत् (संगच्छत् ) यत् ब्रह्माण्डरूपं भाण्डं ( पात्रम् ) तस्योदरे ( अभ्यन्तरभागे ) भ्राम्यन् ( भ्रमन् )
स्तम्भ, स्वेद, रोमाच, अस्पष्ट स्वर, घबड़ाहट, तथा नेत्र विकास आदि इसके अनुभाव हैं ।। २४४ ।।
वितर्क, आवेग, भ्रान्ति और हर्ष आदि व्यभिचारिभाव हैं ।
उ०- महावीर चरितमें श्रीरामके शिवधनुको तोड़ने पर उत्पन्न शब्दको सुनकर लक्ष्मणजीकी उक्ति है । बाहुदण्डोंसे उठाये गये शिवधनुके भङ्गसे उत्पन्न, पूज्य( रामचन्द्रजी ) के बाह्य चरित्रके प्रारम्भके डिण्डिम वाद्य ( ढिढोरा ) के समान - टङ्कार शब्द, शीघ्र विक्षिप्त कपाल के ऊंचे और नीचे दो भाग उनसे मिले हुए ब्रह्माण्ड