________________
तृतीयः परिच्छेदः
दङ्कस्थादस्थिसंस्थं स्थपुटगतमपि क्रव्यमव्यप्रमत्ति ।' अथाद्भुत:
अद्भुतो विस्मयस्थायिभावो गन्धर्वदेवतः ॥ २४२ ॥ पीतवर्णों वस्तु लोकातिगमालम्बनं मतम् । गुणानां तस्य महिमा भवेदुद्दीपनं पुनः ॥ २४३ ॥
स्फिची (कटिस्थमांसपिण्डो) पृष्ठपिण्डं च प्राण्यङ्गत्वात्समाहारद्वन्द्वः, तत् आदिः (प्रकारः) येषां ते, ते च ते अवयवाः ( अङ्गानि ), तेषु सुलभानि ( सुप्राप्याणि, स्थूलत्वात्सो. लभ्येन अनायासप्राप्तव्यानीति भाव: । तादृशानि मांसानि = व्याणि, जग्ध्वा = भक्षयित्वा, अङ्कस्थात = उत्सङ्गस्थिताद, करङ्कात् = शिरसः, शवस्येति शेषः । "करङ्को मस्तकेऽपि स्यात्" इति धरणिः । अस्थिसंस्थं कीकसंस्थितं, तथा स्थपुटगतम् अपि = निम्नोन्नतविषमस्थानस्थितन् अपि, क्रव्यं = मांसं, "पिशितं तरसं मांसं पललं क्रव्यमामिषम् ।" इत्यमरः । अव्यग्रम् = आकुलतारहितं यथा तथेति क्रियाविशेषणं, धैर्यपूर्व कमिति भावः। अति = भक्षयति । स्रग्धरा वृत्तम् । अब शवमासम् आलम्बनं, तत्कर्तनं मांसादनं चोद्दीपनं, माधवस्य निष्ठीवनादयोऽनुभावाः । तदर्शनान्मोहादयो व्यभिचारिभावाः । जुगुप्सा च स्थायिभावः । इत्थ च सामाजिकेषु बीभत्सरसप्रकाशः ।।
___ अद्भुतरसं वर्णयति-अद्भत इति । अद्भुतो रसः, विस्मयस्यायिभावः = विस्मयः स्थायी भावो यस्य सः। गन्धर्वदेवतः = गन्धर्वः ( देवयोनिविशेषः ) देवतम ( अधिदेवः ) यस्य सः नाट्यशास्त्रे तु "अद्भुतो ब्रह्मदेवतः” इति दृश्यते ।। २४२ ।।
पीतवर्णः -- पीतः ( हरिद्राऽऽभः ) वर्णो यस्य सः । लोकाऽतिगं = लोकाऽतिवति, वस्तु = पदाऽर्थः, आलम्बनं मतम् -- आलम्बन विभावः संमनः । तस्य : लोका. तिगवस्तुनः, महिमा = महत्त्वम्, उद्दीपनम् = उद्दीपनविभावः, उदाहृतं = प्रकीर्तितम् ॥ २४३ ॥
व्याकुल यह दरिद्र प्रेत चमड़ेको नोच नोच कर, बड़े सूजवाले अत्यन्त दुर्गन्ध कन्धे
और फटिमें स्थित म'सपिण्ड तथा पीठ आदि अवयवोंमें सुलभ मांसोंको खाकर अपनी गोदमें स्थित शवके शिरसे हड्डी में स्थित और निम्न उन्नत तथा विषय स्थानमें पड़े हुए मासका भी धैर्यपूर्वक खा रहा है ।।
प्रभुत -- इस रसमें स्थायी भाव विस्मय और देवता गन्धर्व हैं ॥ २४२ ।। ____ इसका वर्ण पीला है और अलौकिक वस्तु आलम्बन विभाव है, उसके गुणोंकी महिमा उद्दीपन विभाव है ॥ २४३ ॥