________________
अथ वीरः
तृतीयः परिच्छेदः
उत्तमप्रकृतिवर
उत्साहस्थायिभावकः । महेन्द्रदेवतो हेमवर्णोऽयं समुदाहृतः ॥ २३२ ॥ आलम्बन विभावास्तु विजेतव्यादयो मताः । विजेतव्यादिचेष्टाद्यास्तस्योंद्दीपनरूपिणः 1
अनुभावास्तु तत्र स्तुः सहानान्वेषणादयः || २३३ ॥ सञ्चारिणस्तु धृतिमतिगर्वस्मृतितर्करोमाञ्चाः । सच दानधर्मयुद्धैर्देयया च समन्वितश्चतुर्धा स्यात् ।। २३४ ॥
२६३
वीररसं वर्णपति-- उत्तमप्रकृतिरिति । उत्तमा ( श्रेष्ठा, धीरोदात्तरूपेति भावः) प्रकृति: ( नायकः स्वभावो वा ) यस्य सः । उत्साहस्थायिभावकः = उत्साहः स्थायिभाव' यस्य सः । एतादृशो वीररसः । महेन्द्रदैवतः = महेन्द्रः दैवतं ( देवता ) यस्य सः, अयं = वीररसः, हेमवर्ण: = हेम्नः ( सुवर्णस्य ) इव वर्णो यस्य सः । अयं वीररसः, समुदाहृतः = उक्तः ॥ २३२ ॥
=
विजेतव्यादय: = विजेयत्वप्रभृतयः, आलम्बनविभावा मताः ।
अत्र आद्यशब्देन दानवीरे सम्प्रदानभूतपात्रादिः, धर्मवीरे धर्मादिः, युद्धवीरे शत्रुरूपविजेतव्यादिः दयावीरे च दीनाविश्वालम्बनविभावो यथायथं बोद्धव्यः । तस्य = वीररसस्य, विजेतव्यादिचेष्टाद्याः = युद्धवीरे विजेतव्यानां ( शत्रुप्रभृतीनाम् ) चेष्टाद्या: ( अनिष्टाचरणाद्याः), उद्दीपनरूपिणः = उद्दीपनविभावाः । तत्र = वीररसे, सहायाऽन्वेषणादय: सहकारिगवेषणादयः, आदिपदेन दानवीरे दानाऽर्थसंग्रहादयः, धर्मवीरे यज्ञाचरणादयः, युद्धवीरे सन्धिविग्रहादिप्रयोगाः, दयावीरे च सान्त्वनवाक्यादयोऽनुभावाः ॥ २३३ ॥ | वीररसस्य सञ्चारिभावान्प्रतिपादयति - सञ्चारिणस्तु । घृत्यादयः सवारि भावाः । धृतिः = धैर्य सन्तोषों वा । मतिः = अर्थनिर्द्धारणम् । गर्वः = अभिमानः । स्मृति: = स्मरणम्, तर्कः = ऊहः । रोमाञ्चः = रोमाञ्चजनको हर्षः, रोमाञ्श्वस्य सञ्चारिभावत्वाऽभावालक्षणया मर्यो बौद्धव्यः । स च = वीररसश्च दानधर्मयुर्द्धर्दयया च समन्वितः = युक्तः, चतुर्धा स्यात् ॥ २३४ ॥
वीर-वीर रसमें प्रकृति ( नायक ) उत्तम होता है, इसमें स्थायी भाव उत्साह और इसके देवता महेन्द्र और इसका वर्ण सुवर्णके समान कहा गया है ॥२३२॥ जीतने के योग्य शत्रु आदि इसमें आलम्बन विभाव माने गये हैं, उनकी चेष्टा आदि उद्दीपन विभाव होते हैं, इसमें सहायका अन्वेषण आदि अनुभाव होते हैं ।। २३३ ।। (सन्तोष) मति, गर्व, स्मरण, तर्क और रोमाञ्च इसमें सवारिभाव होते हैं। वीरके चार भेद होते हैं- दानवीर, धर्मवीर, युद्धवीर और दयावीर ॥ २३४ ॥