SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ २६२ साहित्यदर्पणे यथा 'कृतमनुमतं दृष्ट वा यरिदं गुरुपातकं मनुजपशुभिर्निमर्यादेर्भवद्भिदायुधैः । नरकरिपुणा साधं तेषां सभीमकिरीटिना मयमहमसम्मेदोमांसः करोमि दिशां बलिम् ॥' अस्य युद्धवीराद्भ दमाह रक्तास्यनेत्रता चात्र मेदिनी युद्धवीरतः ।। २३१ ।। रौद्र समुदाहरति-कृतमिति । वेणीसंहारनाटकस्थं पद्यम् । स्वपितुāणस्य वधेन क्रुद्धस्याऽश्वत्थाम्न उतिरियम् । मनुजपशुभिः = नरपशुभिः, धर्माऽधर्मज्ञानराहित्येन पशुसदर्शरिति भावः । निर्यादैः = मर्यानारहितः, गुरुत्वमर्यादाज्ञानशून्यरिति भावः, उदायुधः - उत्तोलितशस्त्रः, येः भवद्भिः युष्माभिः, इदं = सपोऽनुष्ठितं गुरु = महत्, पातकं = पातित्यावहं पापं, गुरुहत्यारूपमिति भावः । कृतं = विहित, धृष्टद्युम्नेनेति शेषः, अनुमतम् अनुमोदनं कृतम्, दष्टं वा-अवलोकितं वा, नरकरिपुणा साध श्रीकृष्णेन समं, सभीमकिरीटिनां = भीमसेनाऽर्जुनसहितानां, तेषां = सर्वेषाम् एवं, अयं = सेषो सन्निकृष्टस्थः, अहम् = अश्वत्थामा, असृङ्मेदोमांसः = रुधिरवसा• पललः, दिशा = दिगवस्थितशगालादीनाम्, बलिम् = उपचारतव्यं, करोमि = विदधामि । अस्मिन्पचे धृष्टद्युम्नादय आलम्बनविभावाः, तस्कृतद्रोणहत्यादय उद्दीपनविभावाः, रिपूर्णा हननप्रतिज्ञा अनुभावः, आक्षेपलभ्या गळदयाँ व्यभिगरिभावाः । क्रोधः स्थायीभावः । अस्य युद्धवीराद्भदमाह-रक्तास्यनेत्रतेति । अत्र = रोदरसे, रक्ताऽऽस्यनेत्रता = रक्त ( लोहितवणे ) आस्यनेत्रे ( मुखनयने ) यस्य सः, तस्य पुरुषस्य भावः, रौद्ररसस्य स्थायीभावः क्रोध इति भावः । युद्धवीरतः = युद्धवीरात्, भेदिनी = भेदकारिणी, रोदरसे वीररसे चोभयत्र अरेरालम्बनस्वेऽपि क्रोधाविर्भावे रौद्रः, उत्साहा. विर्भावे वीर इत्यनयो द इति भावः ॥ २३१ ॥ रौद्र उ०-वेणी संहार में अपने पिता द्रोणाचार्यके वधसे क्रुद्ध अश्वत्थामाको उक्ति है । नरपशु, मर्यादाशून्य और शस्त्रोंको धारण करनेवाले जो तुम लोगोंने यह महापातक किया है, अनुमोदन किया है वा देख लिया है, श्रीकृष्ण, भीमसेन और अर्जुन इन सबका रुधिर, चर्बी और मांससे मैं दिशाओंको बलि देता हूँ। रौद्र रसका युद्धवीरसे भेद कहते हैं-रौद्र रसमें मुख और नेत्र लाल वर्णके होते हैं, यही वीररसके युद्धवीरसे भेद करनेवाला है। दोनों रसोंमें शत्रु आलम्बन होता है परन्तु रौद्र रसमें स्थायी भाव क्रोध और चीररसमें उत्साह स्थायी भाव होता है ॥ २३१॥
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy