SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ तृतीयः परिच्छेदः २६१ - - मुष्टिप्रहारपातनविकृतच्छेदावदारणेश्चैव । संग्रामसंभ्रमाद्यैरयोद्दीप्तिभवेत् प्रौढा ॥ २२८ ।। भ्रूविभङ्गोष्ठनिर्दशबाहुस्फोटनतर्जनाः । आत्मावदानकथनमायुधोत्क्षेपणानि च ॥ २२९ ॥ अनुभावास्तथाक्षेपकरसंदर्शनादयः । उग्रतावेगरामाश्चस्वेदवेपथवो मदः ॥ २३० ॥ मोहामषादयस्तत्र भावा स्युव्यभिचारिणः । .. मुष्टिपवम् । मुष्टीत्यादि.=मुष्टिप्रहारः (मुष्टिताडनम्) मुष्टिपदम् अङ्गान्तरोपलक्षकम् । पातनम् ( अरेभूमिपातनम् ), विकृत (विरुद्धाचरणम् ), छेदः (द्वधीकरणं, खड्गादिना अरेश्छेदनम् ) अवदाहरणम् (शूलादिना अरेविदारणम् ), एवं प संग्रामसंभ्रमाद्यः = युद्धत्वरादिभिः, अस्य-रौद्ररसस्य, प्रौढा = महती, उद्दीप्तिःउद्दीपनं भवेत् ।। २२८ ।। विभङ्गोष्ठेत्यादिः । शैद्ररसाऽनुभावाग्निदिशति-भ्र विभः। (भ्रुकुटिदर्शनम् ) ओष्ठनिर्दशः ( दशनेन अधरदंशनम् ), बाहुस्फोटनं ( भुजताडनम् ), तर्जना (भर्सनगिरः)। आत्माऽत्रदानकथनम् आत्मनः (स्वस्य) अवदानं ( कृतं शौर्यकर्म)। तस्य कयनं ( कीर्तनम ) आयुधोत्क्षेपणानि-अस्त्रोत्प्रेरणानि ।। २२९ ।। अनुभावा इति । तथा तेनैव प्रकारेण, आक्षेपः = अपवादः, क्रूरसन्दर्शनं - कठोरदृष्टिः, तदादयः, अनुभाषा: = रोदरसस्येति शेषः । रोदरसस्य व्यभिचारिभावाग्निदिशति-उग्रतेत्यादिः। उग्रता ( रोद्रता ) वेगः ( जवः ) रोमाञ्चः ( रोमकण्टकः ), स्वेदः ( धर्मजलम् ), वेपथुः ( कम्प: ), मदः = अहङ्कारः ।। २३० ।। व्यभिचारिभावाग्निदिशति-मोहाऽमर्षादय इति । मोहः ( वैचित्यम् ) अमर्षः (कोपः ) इत्यादयः, तत्र रौद्ररसे व्यभिचारिणो भावाः ।। मुष्टिसे प्रहार, गिराना, विरुद्ध आचरण, काटना, फाड़ना, संग्राममें सत्वरता रत्यादि कर्मोंसे इसका अधिक उद्दीपन होता है ।। २२८ ॥ भ्र कुटिको टेढ़ी करना ओष्ठको चबाना, ताल ठोंकना, भर्सन करना, अपनी शूरताका कीर्तन, शस्त्रोंको उठाना ॥ २२९ ॥ आक्षेप और कठोर दृष्टि ये सब रोद्रके अनुभाव हैं। उग्रता, आवेग, रोमाञ्च, स्वेद, कम्प और मद ।। २३० ।। मोह तथा क्रोध आदि उसमें व्यभिचारिभाव होते हैं ।
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy