________________
२६०
साहित्यदर्पणे
अत्र हि रामवनवासजनितशोकात्तस्य दशरथस्य देवनिन्दा। एक बन्धुवियोगविभवनाशादावप्युदाहार्यम् । परिपोषस्तु महाभारते स्त्रीपर्वणि द्रष्टव्यः। अस्य करुणविप्रलम्भाद् भेदमाह- ..
शोकस्थायितया भिन्नो विप्रलम्भादयं रसः ।
विप्रलम्भे रतिः स्थायी पुनः संभोगहेतुकः ।। २२६ ।। अथ रौद्रः
रौद्रः क्रोधस्थायिभावा रक्तो रुद्राधिदेवतः ।
आलम्बनमरिस्तत्र तच्चेष्टोद्दीपनं मतम् ।। २२७ ।। पत्रेति । रामेत्यादि-रामस्य ( राघवस्य ) यो वनयासः ( अरण्यनिवासः ), तेन जनितः ( उत्पादितः ) यः शोकः ( मन्युः ) तेन आर्तस्य ( पीडितस्य ) । बन्धुवियोगेत्यादिः = बन्धुवियोगे ( बान्धवविरहे ) विभवनाशादो (सम्पतिनाशादी ) अपि उदाहार्यम् = उदाहरणीयम् ॥ २२६ ।।
प्रस्यति । अस्य = करुणस्य, करुणविप्रलम्मात्, भेदं = व्यावृत्तिम् । आह-- शोकस्थायितयेति । अयं, करुणो रसः, गोकस्यायितया शोकस्य स्थायि मावत्वेनेत्यर्थः । विप्रलम्मात् = करुणविप्रलम्भात्, भिन्नः = भेदप्राप्तः । विप्रलम्भे = करुणविप्रलम्भे, पुनः = भूयः, संभोगहेतुकः = संमोगकारणः, स्थायी = स्थायी भावो, रतिः, शोकस्तु अप्रधानत्वेन प्राग्वर्तीति भावः।
रौद्ररसं वर्णयति-रौद्र इति । रौद्र:-रौद्ररसः, क्रोधस्थायिभावः क्रोधः स्थायी भावो यस्य सः । रक्त:-रक्तवर्णः, रुद्राऽधिदेवत: रुद्रः ( हरः) अधिदेवतम् (अधिष्ठाता देवः ) यस्य सः । तत्र = रोद्ररसे, आलम्बनम् = आलम्बनविभावः, अरिः = शत्रुः, तच्चेष्टा = अरिचेष्टा, उद्दीपनं मतम् = उद्दीपनविभावः सम्मतः ।। २२७ ।।
इस पद्यमें रामके वनवासस उत्पन्न शोकस पीडित दशरथसे की गई देवानन्दा है। इसी प्रकार बन्धुवियोग और धननाश आदिमें भी उदाहरण देना चाहिए । करुणरसका परिपोष महा मारतमें स्त्रीपर्वमें देखना चाहिए।
करुण रसका करुण-विप्रलम्भसे भेद बताते हैं
करुणरस, शोक स्थायी होनेसे करुणविप्रलम्भसे भिन्न है। करुण-विप्रलम्ममें फिर संभोगका हेतु स्थायी भाव रति है ।। २२६ ॥
रोज-रोदरसका स्थायी भाव क्रोध है, इसका वर्ण लाल है और देवता रुद्र हैं । उसमें आलम्बन विभाव शत्रु होता है और उसकी चेप्टा उद्दीपन है ।। २२७ ।।