________________
तृतीयः परिच्छेदः
२५९
निवेदमोहापस्मारव्याधिग्लानिस्मृतिश्रमाः । विषादजडतोन्मादचिन्ताद्या व्यभिचारिणः ।। २२५ ।। शोच्यं विनष्टबन्धुप्रभृति। यथा मम राघवविलासे'विपिने क जटानिबन्धनं ? तव चेदं क मनोहरं वपुः १ ।
अनयोर्घटनाविधेः स्फुटं ननु खड़गेन शिरीषकर्त्तनम् ।।' निःश्वासः (मुखनासाभ्यां निर्गतो वायुः), स्तम्भः (जड मावः, चेष्टाराहित्यमिति भावः, प्रलपनम् ( अनर्थकवचन कथनम् ), एतानि चाऽनुभावाः ।। २२४ । '
करुणरसे व्यभिचारिभावानाह-निर्ववेत्याधिः । निर्वेदः ( विरक्तिः ), मोहः ( मूर्छा ), अपस्मारः ( रोगविशेष: ) व्यावि: ( सामान्यरोगः) ग्लानिः ( म्लानिः ), स्मृतिः ( स्मरणम् ), श्रमः ( परिश्रमः )। एवं च विषादादिः = विषादः ( खेदः ), जडता ( स्तब्धता ), उन्मादः ( चित्तविभ्रमः ) चिन्ता ( आध्यानम् ), इत्याद्याः व्यभिचारिणः ।। २२५ ॥
शोच्यं = शोचनीय, विनष्टबन्धुपभूति ।
करुणरसमुदाहरति-विपिन इति । वनगमनतत्परं रामं दृष्ट्वा दशरथस्योक्तिरियम् । विपिने = धने, तव, जटानिबन्धनं = जटाधारणं, क्व = कुत्र, इदं दृश्यमान, मनोहरं = सुन्दरं, वपुश्च = शरीरं च, क्व = कुर; उभयोमहदन्तरमिति भाव: । अत एव पूर्वा विषमाऽलङ्कारः । विधेः = ब्रह्मणः, अनयोः = जटानिबन्धनमनोहरवपुषोश्च, घटनाविधेः = एकत्र संघटनाविधानात्, खड्गेन = असिना, शिरीषकर्तनं = शिरीषपुठाच्छेदनं, स्फुटं = व्यक्तं, ननु = निश्चयेन । उत्तरार्द्ध निदर्शनाऽलङ्कारः, तथा चैतयो. योरलङ्कारयोरङ्गाङ्गिभावेन सङ्करः । अत्र राम आलम्बनविभावः, तस्य वनगमनोद्यम उद्दीपनविभावः, शोकः स्थायिभावः, देव निन्दा अनुभावः, ग्लान्याद्या व्यभिचारिभावा: आक्षेपलभ्या: । वियोगिनी वृत्तम् । बडभाव, प्रलाप ( निरर्थक वचन ) ये सब करुण रसमें अनुभाव होते हैं ।। २२४ ।।
निर्वेद ( विरक्ति ), मोह, अपस्मार (मिरगी रोग), व्याधि ( सामान्यरोग), ग्लानि, स्मरण, परिश्रम, विषाद, जडता, उन्माद, और चिन्ता आदि. इसमें व्यभिचारी भाव हैं ।। २२५ ॥
उ० -ग्रन्थकारके "राघवविलास" नामके ग्रन्थका पद्य है-वनमें जानेके लिए तत्पर रामको देख कर महाराज दशरथ कहते हैं-जङ्गलमें जटाओं को बाँधना कहाँ और तुम्हारा यह सुन्दर शरीर कहाँ, देवसे की गई इन दो विषयोंकी योज: खड्गसे शिरीष पुष्पको काटनेके समान है।