________________
तृतीयः परिच्छेद
२५५
हास्यो हासस्थायिभावः श्वेतः प्रमथदैवतः ॥ २१४ ॥ विकृताकारवाक्चेष्टं यमालोक्य हसेज्जनः। .
तमत्रालम्बनं प्राहुस्तच्चेष्टोद्दीपनं मतम् ।। २१५ ।। अनुभावोऽक्षिसङ्कोचवदनस्मेरतादयः निद्रालस्यावहित्थाया अत्र स्युर्व्यभिचारिणः ॥ २१६ ।। ज्येष्ठानां स्मितहसिते, मध्यानां विहसितावहसिते च ।। नीचानामपहसितं दथातिहमितं तदेष पड़मेदः ।। २१७ ।। भावः = हासः ( हास्यम् ) स्थायी भावो यस्य सः, श्वेतः = श्वेतवर्णयुक्तः । प्रमथदेवतः = प्रमथः ( शिवपारिषदः) देवतं ( देवः ) यस्य सः, तादृशो भवति ॥ २१४ ।।
विकृताकारवागिति । विकृताऽऽकारवाक्चेष्टं = विकृताः (विकारयुक्ताः) आकारवाक्चेष्टाः ( आकृतिवाणीचेष्टनानि ) यस्य सः, तम् । तादृशं यं = पदार्थम्। आलोक्य = दृष्ट्वा , जनः, हसेत् = हास्यं कुर्याद, अत्र = अस्मिन् हास्यरसे, तं = जनम् आलम्बनम् = आलम्वनविभावं, प्राहुः कथयन्ति, तच्चेष्टा आलम्बनचेष्टा, उद्दीपनम्उद्दीपनविभावः, मतं = सम्मतम् ॥ २१५ ॥
अनुभाव इति । अत्र = हास्यरसे। अक्षिसङ्कोचवदनस्मेरतादयः. बक्षिसङ्कोचः ( नयनसंकोचनम् ) वदनस्मेरता (मुखविकासः ), तदादयः (तत्प्रभृतयः) अनुभावः । निद्रालस्याऽत्रहित्याद्या = निद्रा ( स्वाप:) आलस्यम् (अलसता) अवहित्था ( आकारगोपनम् ) तदाद्याः, व्यभिचारिणः = व्यभिचारिभावाः ।। २१६ ।।
हास्यभेदानाह-ज्येष्ठानां = श्रेष्ठानाम्, उत्तमप्रकृतीनामिति भावः, स्मितहसिते; भवत इति शेषः। मध्यानां = मध्यमानां जनानां, विहसिताऽवहसिते, भवतः । नीचानाम् = अधमप्रकृतीनां जनानाम्, अपहसितं, लथा अतिहसितं, भवत इति शेषः । तत् %D तस्मात्कारणात्, हासः = हास्यः, पड़भेदः =षट् भेदा यस्य सः, तादृशो भवतीति भावः । अनुपदमेषां लक्षणानि प्रतिपाद्यन्ते ॥२१७ ॥ प्रकट होता है, इसका स्थायी भाव 'हास' है वर्ण शुक्ल और देवता 'प्रमय' माने गये हैं ।। २१४॥
विकारयुक्त-आकार, वाणी और चेष्टासे युक्त जिसको देखकर लोग हमें वह आलम्बन होता है और उसको चेष्टा उद्दीपन होती है ।। २१५॥
नेत्रसङ्कोच और मुख विकास आदि अनुभाव होते हैं निद्रा, आलस्य और अवहिल्या ( आकारको छिपाना ) आदि इसमें व्यभिचारिभाव होते हैं ॥ २१६ ।।
उत्तमजनोंका स्मित और हसित, मध्यम जनोंका विहसित ओर अवहसित तथा नीच जनोंका अपहसित और अतिहसित इसप्रकार इसमें हारके छः भेट होई हैं ।११॥