________________
तृतीया परिच्छेदः
२५१
यच्चात्र 'सलमप्रत्याशानन्तरमपि भवतो विप्रलम्भशृङ्गारस्य प्रवासाख्यो भेद एवं' इति केचिदाहुः, तदन्ये 'मरणरूपविशेषसंभवात्तद्भिन्नमेव' इति मन्यन्ते। अथ संभोग:
दर्शनस्पर्शनादीनि निषेवेते विलासिनी ।
यत्रानुरक्तावन्योन्यं संभोगोऽयमुदाहृतः ॥ २१० ॥ पादिशब्दादन्योन्याधरपानचुम्बनादयः । यथा-'शून्यं वासगृहम्-' (पृ०२४ तमे ) इत्यादि। अभियुक्ताः = प्रामाणिकाः । यच्च अत्र = कादम्बर्याम् । संगमप्रत्याशानन्तरम् =समागमप्रत्याशायाः पश्चात्, आकाशवाणीत इति शेषः। भवतः= विद्यमानस्य, विप्रलम्भपङ्गारस्य, प्रवासाख्य = प्रवासनामकः, भेदः = प्रकारः इति केचित् । कादम्बयाँ प्रथम करुणः, आकाशसरस्वतीभाषानन्तरं = प्रवासशृङ्गार इति धनिकादयः । तदन्येतेभ्यो भिन्नाः । मरणरूपविशेषसम्भवात् = मरणरूपः ( मृतिस्वरूपः ) यो विशेषः ( भेदः) तत्संभवात् ( तदुत्पत्तेः) तद्भिन्नम् अपि = प्रवासभिन्नम् अपि । पूर्वोक्तमतद्वयेऽपि विश्वनाथकविराजस्याऽरुचिः सूचिता, यतः पुण्डरीकस्य, तदात्वे मरणेऽपि आकाशवाण्यनुसारं पाज्जीवनात् न करुणों रसः एवं च तदात्वे मरणान्न प्रवासात्मको विप्रलम्मः बङ्गार, अपि तु करुणविप्रलम्भ एवेति भावः ॥ २०९ ॥
___ संभोगशङ्गारं लक्षयति-दर्शनस्पर्शनादीनीति । यत्र = यस्मिन् स्थले, बन्योन्यं = मिथः, अनुरक्ती = अनुरागयुक्ती, विलासिनौ= विलासिनी विलासी च; "पुमान् स्त्रिया" इत्येकशेषः । दर्शनस्पर्शनादीनि = विलोकनामर्शनप्रभृतीति, कर्माणि निषेवेते =कुरुतः, अयं संभोगः = संभोगशृङ्गारः, उदाहृतः। "मिथ:" पदेन केवलमेकस्य अनुरागप्रकाशने नाऽतिप्रसक्तिः ॥ २१० ॥
संभोगशृङ्गारमुदाहरति-"शून्यं वासगृहम्" इत्यादि (पृ. २४ तमे) ॥२१०॥ बोकि यहाँपर आकाशवाणीसे समागमकी आशाके अनन्तर भी होनेवाले विप्रलम्म पङ्गारका 'प्रवास' नामका ही भेद होता है ऐसा कुछ लोग ( आचार्य धनिक आदि) कहते हैं। उनसे भिन्न आचार्यलोग मरणरूप विशेष भेद होनेसे प्रवाससे भिन्न ही मानते हैं।
संभोग-एक दूसरे में अनुराग करनेवाले विलासी नायिका और नायक जहांपर परस्पर दर्शन और स्पर्श आदि करते हैं उसे "संभोग शृङ्गार" कहते हैं ।। २१० ॥
बादि शब्दसे परस्पर अधरपान और चुम्बन आदि लिये जाते हैं । जैसे-"शून्यं. भागहम्" (पृ० २४ ) इत्यादिमें ।