________________
“२३६
साहित्यदर्पणे
तत्राद्यं यथा
'शेफालिकां विदलितामवलोक्य तन्वी
प्राणान् कथंचिदपि धारयितुं प्रभूता । आकर्ण्य संप्रति रुतं चरणायुधानां
किं वा भविष्यति न वेनि तपस्विनी सा ।' द्वितीयं यथा'रोलम्बाः परिपूरयन्तु हरितो झङ्कारकोलाहलै ।
मन्दं मन्दमुपैतु चन्दनवनीजातो नभस्वानपि । माधन्तः कलयन्तु पूतशिखरे केलीपिकाः पञ्चम,
प्राणाः सत्वरमश्मसारकठिनागच्छन्तु गच्छन्त्वमी ।' तत्र (मरणभेदेषु ) आद्य प्रयम, जातप्रायं मरणमुदाहरति शेफालिकामिति । प्रभातप्रायायां रजन्यां नायिकासख्या नायकं प्रत्युक्तिरियम् । तन्वी = कृशोदरी, तपस्विनी = शोचनीया, सा-सखी, शेफालिका निगुण्डीपुष्पं, विदलिता-विकसिताम्' अवलोक्य-दृष्टवा, शेफालिकाविदलनकालो निशीथः (अर्धरात्रः) बोध्यः । कथंनिदपिकेनाऽपि प्रकारेण महता कष्टेनेतिभावः । प्राणान् = असून, धारयितु = धतु, प्रभूतासमर्था आसीत । परं, सम्प्रति इदानीं, रात्रिशेषयामाघे इति भावः । चरणायुधानां = कुक्कुटानां, रुतं वाशितम्, आकर्ण्य-श्रुत्वा, किंवा भविष्यतिकिंवा भाविनी, इति । न वेभिः-नो जानामि । भवतोऽनागमनासा नैराश्यात् मृतप्राया इति संभाव्यत इति भावः ।
___ द्वितीयं = चेतसामाक्षित मरणं यथा - रोलम्बा इति । रोलम्बा: = भ्रमराः, झङ्कारकोलाहल: :- प्रकृतिकलकलः, हरित: = दिशः, परिपूरयन्तु = परिपूर्णा. कुर्वन्तु । चन्दनवनीजातः = श्रीखण्डवनोत्पन्नः, नभस्व'न् अपि = वातः अपि, मन्दं मन्दं = मनः शनैः, उपेतु = प्राप्नोतु । केलीपिका: = क्रीडाकोकिलाः, गृहपालिता इति शेषः । माद्यन्तः-मत्ता भवन्तः, बसन्तागमनेनेति भावः । वृतशिखरेआम्रवृक्षोर्वमागे, पञ्चमं = स्वरं, कलयन्तु = उच्चारयन्तु । एनादृश्यां दशायामपि स्थायिनः अत एव अश्मसारकठिना: = पाषाणस्थिरांशकठोराः, अमी --- एते, प्राणाः = असवः, मदीया इति शेषः । सस्वरं = शीघ्र, गच्छन्तु गच्छन्तु-व्रजन्तु वजन्तु, पीडायो द्विक्तिः । अत्र मदनवेदनों सोढुमसमर्थया नायिकया स्वचेतसा मरणमाकाक्षितम् ॥ ..
१ उत्पन्नप्राय मरणका उ०-कुशाङ्गी निर्गुण्डी पुष्पको विकसित देखकर किसी तरह प्रागोंको धारण करनेमें समर्थ हुई थी, इस समय मुरगोंका बांग सुनकर वह शोचनीया कैसी होगी ? मैं नहीं जानती हूँ।
२ चित्तसे प्रभीष्ट मरणका उ०-ौरे मबारके कोलाहलोंसे दिशाओंको परिपूर्ण करें। चन्दनवनमें उत्पन्न हवा भी मन्दमन्द बहती रहे । मत्त होते हुए क्रीडाके कोकिल पञ्चम स्वरका आलाप करें। पत्थरके सारके समान कठोर ये मेरे प्राण शीघ्र चले जायें, चले जायें। ये दोनों पद्य ग्रन्थकारके हैं ।