________________
तृतीयः परिच्छेदः
२३५ अत्र व्याधिः। 'भिसिणीअलसअणीए निहिअं सव्वं सुणिञ्चलं अङ्गं । दीहो णीसासहरो एसो साहेइ जीअइत्ति परं॥ अत्र जडता । इदं मम। रसविच्छेदहेतुत्वान्मरणं नैव वण्यते ॥ १९३ ॥ जातप्रायं तु तद्वाच्यं चेतसाकाक्षितं तथा। वर्ण्यतेऽपि यदि प्रत्युञ्जीवनं स्वाददूरतः ॥ १९४ ॥ जडतामुदाहरति-भिसिणीति ।
"विमिनीदलशयनीये निहितं सर्व सुनिश्चलमङ्गम् । दीर्घो नि.श्वासभर एष साधयति जीवतीति परम् ॥” इति संस्कृतच्छाया ।
काचित्स्वसखों प्रति मदन गैडिताया: कस्याश्रिज्जडतां वर्णयति । विसिनीदलशयनीये == कमलिनीपत्त्रशय्यायां, निहितं :- न्यस्तं, सर्व-सकलम्, अङ्ग-देहाऽन्यवः । सुनिश्चलम् = अतिशयाऽवलम् । एतन्मृतिसूचकं, परं-किन्तु दीर्घ आयतः, एषः-अयं, निःश्वासभर: -- उच्छ्वासाऽतिशयः, जीवति -प्राणान् धारयतीति, साधयति = सूचयतीति भावः । गाथा वृत्तम् ।
दशमी कामदशां वर्णयति-रसविच्छेदहेतुत्वादिति । रमविच्छेदहेतुत्वात् = शृङ्गाररसविनाशकारणत्वात्, मरणं = मृतिः, नव वर्ण्यते-नव प्रतिणद्यते, मरणवर्णने सति तु करुण सस्याऽऽपतनं स्यादिति भावः ।। १९३ ।।
यद्यवं तहि कामदशासु तस्याऽन्यतमत्वप्रतिपादनं किमर्थमित्यत आह-जातप्रायमिति । तु=किन्तु, तत् = मरणं, जातप्रायम् = उत्पन्नप्रायं, तथा चेतसा=चित्तेन, आकाक्षितम् = अभीष्टम्, एव च-अदूरतः मरणस्य कियत्कालात्, प्रत्युज्जीवनम्= आलम्बनस्य पुनर्जीवनं, स्यात् यदि - भवेच्चेत्, तहि तादृग्रूपेण मरणं 'वर्ण्यते । १९४।।
जडताका उ०-कमलके पत्तोंकी शय्यापर रक्खा गया पूरा शरीर निश्चल और यह लम्बा निःश्वास “यह प्राणोंका धारण कर रही है" इस बात को सिद्ध कर रहा है । यहाँ जडता है । यह पद्य ग्रन्धकारका है।
रसविच्छेदका कारण होनेसे मरणका वर्णन नहीं किया जाता है ॥ १९३ ॥
उत्पन्नप्राय रूपसे, चितके अभीष्टरूपसे और कुछ कालके अनन्तर आलम्बनका फिर जीवन हों तो मरण का भी वर्णन किया जाता है ।। १९४ ।।