________________
२३४
साहित्यदर्पणे
'त्रिभागशेषासु निशासु च क्षणं निमील्य नेत्रे सहता व्यबुध्यत । क्व नीलकण्ठं ! व्रजसीत्यलक्ष्यवागसत्यकण्ठापितबाहुबन्धना ॥ अत्र प्रलापः। 'भ्रातविरेफ'–इत्यादौ (पृ० २११ ) उन्मादः।
'पाण्डु क्षामं वदनं, हृदयं सरसं, तवालसं च वपुः ।
आवेदयति नितान्तं क्षेत्रियरोगं सखि! हृदन्तः ।।' प्रलापमुदाहरति - विभागशेषास्थिति। कुमारसंभवे वणिवेशधारिणं विं प्रति सखीकृतं पार्वत्याः शिवानुरागवर्णनमिदम् (५,५७ )। विभाग शेषासु = तृतीयभागाऽवशिष्टामु. निशासु == रात्रिषु, क्षणं-कश्चित्कालं यावत्, अत्यतन्मयोगे द्वितीया । नेत्रे = नयने, निमील्य == मुद्रयित्वा, हे नीलकण्ठ = हे शिव !, क्व = कुत्र, व्रजसि = गच्छसि, इति = एवम्, अलक्ष्यवाक् = अलक्ष्या ( अविषया) वाक् ( वाणी ) यस्याः सा, तादृशी पार्वती, असत्यकातिबाहुबन्धना = असत्यः (मिथ्याभूतः ) यः कण्ठः (गल: ), शिवस्येति शेषः । तस्मिन् अपितं ( न्यस्तम् ) बाहुबन्धनं ( भुभदन्धनम्, आलिङ्गनमिति भा: ) यया सा, तादृशी सती । सहसा = अतक्तिरूपेण, व्यबुद्धयत = जागरिता । अब प्रलापो जागरश्च । वंशस्थं वृत्तम् ॥
___ व्याधिमुदाहरति--पाण्डिवति । हे सखि हे वयस्ये !, पाण्डु- पाण्डुरं, मामकृशं च, तव - भवत्याः , वदनं - मुखं, सरसं = साऽनुरागं, तव हृदयम्, तथा अलसक र्याऽसमर्थ न, लव वपुः = शरीरं, हृदन्तः = हृदयमध्ये, क्षेत्रियरोगं = शरीराऽन्तर. चिकत्स्यरुजाम्, आवेदयति = ज्ञापयति क्षेत्रिय इत्यत्र "क्षेत्रियच् परक्षेत्र चिकित्स्य" इति निपातः ।
त्रिभागशेषा० । कुमारसंभवमें ब्रह्मचारीका वेष लिए हुए शिवजीको पार्वतीकी सखी पार्वतीका शिवजीमें स्थिन अनुरागका वर्णन करती है-रात्रिके अन्तिम प्रहरमें कुछ काल आखोंको मूंदकर "हे नीलकण्ठ ! आप कहाँ जाते हैं ?" ऐसा प्रलाप करती हुई पार्वती शिवजीके कल्पित कण्ठमें बाहुबन्धनको अर्पित करती हुई (आलिङ्गन करती हुई ) अकस्मात् जाग जाती हैं। "भ्रातद्विरेफ०” (पृ० २११) इत्यादिमें उन्माद है।
ध्याधिका उ० - हे सखि ! पाण्डुवर्ण और कृश तुम्हारा मुख, सरस हृदय, आलस्यपूर्ण ऐसा तुम्हारा शरीर हृदयके भीतर रहे हुए क्षेत्रिय ( असाध्य अर्थात दूसरे शरीरमें चिकित्साके योग्य ) रोगकी सुचना कर रहा है । इसमें व्याधि हैं।