SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ तृतीयः परिच्छेदः श्रवणं तु भवेत्तत्र दूतबन्दिसखीमुखात् । इन्द्रजाले च चित्रे च साक्षात्स्वप्ने च दर्शनम् ।। १८९ ।। 1 अभिलाषश्चिन्तास्मृतिगुणकथनाद्वेगसंप्रलापाच उन्मादोऽथ व्याधिजंडता मृतिरिति दशात्र कानदशाः || १९० ।। अभिलाषः स्पृहा, चिन्ता प्राप्युपायादिचिन्तनम् । उन्मादया परिच्छेदश्चेतनाचेतनेष्वपि ॥ १९१ ॥ अवस्थाविशेषः, स पूर्वगग उच्यते । पूर्वरागो नाम अभीष्ट प्राप्तेः पूर्वो २३१ दशाविशेषः रागः ॥ १८८ ॥ श्रवणं निरूपयति-श्रवणमिति । तत्र - पूर्वरागे, दूतबन्दिसखीमुखात् दूत: ( सन्देशहर: ), बन्दी ( स्तुतिपाठक ), सखी ( वयस्था ), तन्मुखात् ( तक्षननात ) तु "श्रवणं" भवेत् । तत्र बन्दिमुखाच्छ्रवणं नंषधीयचरिते महाकाव्ये | सखीमुखात् = बुद्धरक्षितामुखात् श्रवण मालतीमाधवे । इन्द्रजालं नाम इन्द्रेण (कौशला श्वर्येण) जालम् (द्रष्टुत्रावरणम् ) । तादृशे इन्द्रजाले, चित्रे = आलेख्ये, मालविकाऽग्निमित्रे नटके अग्निमित्रेण राजा मालविकायाचित्रे दर्शनम् । साक्षात् माक्षादर्शनम्, यथा अभिज्ञानशाकुनले दुष्यन्त कुन्तलाभ्यामन्योन्यम् । स्वप्ने दर्शनं - श्रीमद्भागवत महापुराणे उषया अनिरुद्धस्य ॥ १८९ ॥ J = दश कामदशा उद्दिशति - प्रभिलाष इति । अभिलाषः = काम:, चिन्ता = आध्यानं स्मृतिःस्मरणम्, गुणकथनं = सौन्दर्यादिगुणप्रतिपादनम्, उद्वेगः = विरह जन्यो दुःखोद्गमः, संप्रलापः - अनधकं वचः, उन्मादः - चित्तविभ्रमः व्याधिः - रोग:, जडता - निश्चेष्टत्वम् मृतिः मरणम् इत्थं च अत्र = पूर्वरः गे, दश, कामदशा:= कामकृता अवस्थाः ।। १९० ।। = = तत्र का दिशा विवृणीति - प्रभिलाष इति । अभिलाषः = स्पृहा । चिन्ता = नायिकाया नायकस्य वा प्राप्युपायादिचिन्तनम् । उन्मादः = चेतनाऽचेतनेषु अपि परस्परमें अनुरागनाले नायिका वा नायककी अप्राप्ति में जो अवस्थाविशेष है उसे "पूर्व • राग " कहते हैं ।। १-८ ॥ उसमे दूत बन्दी (स्तुतिपाठक ) और सखीके मुखसे "श्रवण" होता है । इन्द्रजाल में, चित्र में, स्वप्न में अथवा प्रत्यक्ष "दर्शन" होता है ।। १८९ .. = कामदशाएं-- अभिलाष, चिन्ता, स्मरण, गुणकथन, उद्वेग, प्रलाप, उन्माद ( पागलपन ), व्याधि, जडता ( चेष्टाहीनता ), और मरण विप्रलम्भ शृङ्गारमें ये दश कामदशाएं होती हैं ॥ १९० ॥ स्पृहाको "अभिलाष" नायक अथवा नायिकाको पानेके लिए उपाय आदिके
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy