SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ साहित्यदर्पणे सहृदयविषयो रतिभावः शङ्गाररसरूपतां भजते । तद्भदावाह-- - विप्रलम्भोऽथ संभोग इत्येष द्विविधो मतः ।। १८६ ।। तत्र यत्र तु रतिः प्रकृष्टा नाभीष्टमुपैति विप्रलम्भोऽसौ । अभीष्टं नायकम् , नायिका वा स च पूर्वरागमानप्रवासकरुणात्मकचतुर्धा स्यात् ।। १८७ ।। तत्र श्रवणादर्शनाद्वापि मिथः संरूढरागयोः । दशाविशेषो योऽप्राप्तौ पूर्वरागः स उच्यते ।। १८८ ।। नीतः सहृदय विषयः = हृदयालुविषयकः, रतिभावः = अनुरागाविर्भावः ।। शृङ्गारभेदावाह-विप्रलम्भ इति । एष: = शृङ्गारः, विप्रलम्भः संभोगश्वे ति द्विविधः -- द्विप्रकारः, मतः ।। १८६ ॥ विप्रलम्भशृङ्गारं: लक्षयति-यत्रेति । यत्र = यस्मिन् शृङ्गारे रतिः = अनुरागः, प्रकृष्टा = उत्कृष्टा सी, अभीष्टं = स्वेप्सितं, नापिका नायक, नायको नायिका वा इति भावः, न उपति - न प्राप्नोति, अन्तरायापातादिति शेषः । असो = एषः, विप्रलम्भः = विप्रलम्भशृङ्गारः। विप्रलम्भस्य भेदचतुष्टयमुद्दिशति-स चेति । स च -- विप्रलम्भशृङ्गारश्च, पूर्वराग मान प्रवास-करुणात्मकः = पूर्वरागो मानः प्रवास: करुणः आत्मा ( स्वरूपम् ) यस्य सः, इत्थं चतुर्द्धा = चतुभिः प्रकारः, परिगणितः स्यादितिः भावः ।। १८७ ॥ पूर्वरागं लक्षयति-श्रवणादिति । अभीष्टसौन्दर्यादेः श्रवणात् = दूतादि. मुखादाकर्णनात्, दर्शनात् = इन्द्र जालस्वप्नाभ्यां चक्षुभ्यां वा विलोकनात, वाऽपि, मिथ= परस्पर, संरूढरागयोः = जाताऽनुरागयोः नायिकानायकयो:, अप्राप्तो = अनासादने, यो लज्जा और हास्य व्यभिचारिभाव हैं । इनसे अभिव्यक्त, सहृदयोंको होनेवाला रतिभाव शृङ्गाररसके स्वरूपको प्राप्त करता है। शनारके भेष-विप्रलम्भ और संभोग इसप्रकार शृङ्गारके दो भेद हैं ।१८६। विप्रलम्भ-जिस शृङ्गारमें रस्ते ( अनुराग ) उत्कृष्ट होकर भी परन्तु अभीष्ट नायक वा नायिकाको प्राप्त नहीं करती है उसे "विप्रलम्भ" कहते हैं। विप्रलम्भके भेद --विप्र. म्भ शृङ्गारके चार भेद हैं- पूर्वराग, मान, प्रवास और करुण ।। १८७ ॥ पूर्वराग-अभीष्ट (नायक वा नायिका) के सौन्दर्य आदिको सुननसे वा देखनेसे
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy