________________
तृतीयः परिच्छेदः
१२९
चन्द्रचन्दनरोलम्बरुताद्य द्दीपनं मतम् । भ्रूविक्षेपकटाक्षादिरनुभावः
प्रकीर्तितः ।। १८५ ।। त्यक्त्वौग्रथमरणालस्यजुगुप्सा व्यभिचारिणः । स्थायिभावी रतिः, श्यामवोऽयं विष्णुदैवतः ।। यथा
'शू यं वासगृहम्--' इत्यादि (पु० २४ )। तत्रोक्तस्वरूपः पतिः, उक्तस्वरूपान बाल: आलम्बनविभावौ । शून्यं वासगृहम-उद्दीपनविभावः । चुम्बनम्-अनुभावः। लज्जाहासौ-व्यभिचारिणौ। एतैरभिव्यक्तः
शृङ्गारे उद्दीपन निरूपयति-चन्द्र त्यादि । चन्द्रचन्द्र नरोलम्बरुतादि = इन्दुश्रीखण्डभ्रमरझङ्कारादिकम् अत्रादिपदेन कोकिलकूजितादिपरिग्रहः । उद्दीपनं मतम् - उद्दीपनविभावत्वेनाऽभिमतम् ।।
शृङ्गारेऽनुभावं निरूपयति-भ्र विक्षेपादिः । भ्रू विक्षेपकटाक्षादिः= 5 विक्षेपः (धूप्रेरणम् ) कटाक्षादिः (अपाङ्गदर्शनादिः ), आदिपदेन सङ्केतादेः परिग्रहः । "अनुभावः" सम्मतः ।। १८५ ॥
शुङ्गारे व्यभिचारिभावाग्निदिशति-त्यक्त्वेति । औप्रघमरणालस्यजुगुप्साः= औषधम् ( उग्रता ), मरणम् ( मृत्युः ), आलस्यम् ( अलसता ), जुगुप्सा (घृणा), सर्वा एतास्त्यवस्था = विहाय अन्ये निदादयः, व्यभिचारिणः = व्यभिचारिभावाः ।।
___ शृङ्गारस्य स्थायिभाव-वर्ण-देवतानि प्रदर्शयति-स्थायिभाव इति । शृङ्गारस्य स्थायिभावो रतिः, वर्णः = श्यामवर्णः, अयं विष्णुदेवतः, विष्णुर्देवतं यस्य सः, शृङ्गारस्य देवता विष्णुरित्यर्थः । सत्त्वगुणस्याऽधिष्ठाता देवों विष्णुः । सत्त्वगुणस्य सुखरूप वाद, शङ्गारेऽपि नायिकानायकानां सुखानुभूतिः । विपलम्भशृङ्गारस्य दुःखमयत्वेऽपि वर्णना. भिनयरूपादिव्यापारः पार्यन्तिक सुखमेव जन्यत इत्यपि बोद्धव्यम् ।। १८५॥ ___उदाहरति-शून्यं वासगृहमिति । एतः = भावः, अभिव्यक्तः = अभिक्ति
चन्द्र, चन्दन, भ्रम झङ्कार आदि इसमें "उद्दीपन विभाव" होते हैं। भौहोंको चलानां और कटाक्ष आदि इसमें "अनुभाव" माने जाते हैं । १८५॥
उग्रता, मृत्यु, आलस्य और जुगुप्साको छोड़कर अन्य निर्वेद आदि इसमें "व्यभिचारिभार" होते हैं । शृङ्गारका स्थायिभाव "रति" है और इसका वर्ण श्याम है तथा इसके देवता भगवान् विष्णु हैं ।। १८६ ॥
उ.-जैसे "शून्यं वासगृहम्" इत्यादि (पृ. २४ ) यहाँपर उक्तस्वरूप पति और पत्नी आलम्बनविभाव, शून्य वासगृह उद्दीपनविभाव, चुम्बन अनुभाव है और
-