________________
२२८
साहित्यदर्पणे
अथ रसस्य भेदानाह--
शृङ्गारहास्यकरुणरौद्रवीरभयानकाः ।
बीभत्सोऽद्भुत इत्यष्टौ रसाः, शान्तस्तथा मतः ।। १८२ ।। तत्र शृङ्गारः--
शृङ्ग हि मन्मथोद्भेदस्तदागमनहेतुकः । उत्तमप्रकृतिप्रायां रसः शृङ्गार इष्यते ।। १८३ ।। परोढां वजेयित्वा तु वेश्यां चाननुरागिणीम् ।
आलम्बन नायिकाः स्युदक्षिणाद्याच नायकाः ।। १८४ ।। रसस्य भेदानाह-शृङ्गारेत्यादिः । शृङ्गारादारभ्य अद्भुतं यावत् अष्टो रसाः सर्वेषां मते । दशरूपककारो धनिस्तु "पुष्टिर्नाट्येषु नैतस्ये"तिं वदन् शान्तस्य रसरूपत्वं प्रत्याचल्यो । नाट्यशास्त्र कृतो मुनेभरतस्य मते शान्तो रसः, 'तथा' इति कयनेन वत्सलस्याऽपि रसत्वेन परिगणनं बोद्धव्यम् । अव तस्याऽपि विवरणमग्रे भविष्यति ।। १८२॥
शृङ्गार लक्षयति-शृङ्गमिति। शृङ्ग = मन्मथोद्भेदः । मन्मथस्य ( मदनस्य ) उद्रेकः ( आविर्भाव: ), तदागमनहे तुकः -- मदनप्राप्तिकारणभूतः, उत्तम. प्रकृतिप्रायः = उत्तमप्रकृतिः ( श्रेष्ठस्वभावो नायकः ) प्राय: ( प्रचुर. ) यस्मिन्, म रसः शृङ्गार इष्यते । रसेषु मध्ये शृङ्गम् (प्राधान्यम्) इयतीति शृङ्गारः, शृङ्गोपपदपूर्वकात् "ऋ गतौ” इति धातो: "कर्मण्यण्" इति सूत्रेण अणि प्रत्यये कृते शृङ्गार. पदनिष्पत्तिः ॥ १-३॥
___ अत्र शृङ्गारे-पालम्बनं वर्णयति । परोढाम् अन्यपरिणीता स्त्रियं, तथा अननुरागिणीम् == अनुरागरहितां, वेश्यां च-वारस्त्रियं च, वर्जयित्वा त्यक्त्वा, अन्या: सर्वा नायिकाः, दक्षिणाद्याश्च = दक्षिणादयन सर्वे नायक':, आलम्बनम् = आलम्बनविभावरू:, स्युः । "अननुरागिणीम्" इति देश्याया विशेषणत्वेन अनुरागिणी वेश्या आलम्बनत्वेन परिगृहीता भवतीति बोध्यम् । ततश्च मृच्छकटिकस्य वसन्तसेनाया वेश्याया अनुरागिणीत्वेन आलम्ब नत्वं सुरक्षितं भवतीति भावः ॥ १८४ ॥
रसों के भेव-शङ्गार हास्य, करुण, रौद्र, वीर, भयानक बीभत्स और अद्भुत ये आठ रस हैं, उसी तरह शान्त भी रप माना गया है ।। १८२ ॥
शङ्गार-कामदेवके आविर्भावको ‘शृङ्ग" कहते हैं, उसका आगमनकारण, इसमें प्राय: उत्तभस्वभाव वाला नायक होता है, ऐसे -सको 'शृङ्गार" कहते हैं 1१८३॥
परोढा और अनुरागरहित वेश्या ( साधारणी स्त्री) को छोड़कर अन्य नायिकाएं और दक्षिण आदि नायक इसके “आलर वन विभाव" है ।। १८४ ॥