SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ २२४ साहित्यदर्पणे शान्त जुगुप्सा कथिता व्यभिचारितया पुनः । इत्यायन्यत्समुन्नेयं तथा भावितबुद्धिभिः ॥ १७३ ॥ अथ स्थायिभावः अविरुद्धा विरुद्धा वा यं तिरोधातुमक्षमाः । आस्वादाकुरकन्दोऽसौ भावः स्थायीति संमतः ॥ १७४ ।। यदुक्तम् 'स्रक्सूत्रवृत्त्या भावानामन्येषामनुगामकः । • नतिरोधीयते स्थायी तैरसौ पुष्यते परम् ॥' इति । शान्ते = रसे जुगुप्सा व्यभिचारितया काथता । भावितबुद्धिभिः = परिष्कृत. मतिभिः, अलङ्कारशास्त्रालोचनेनेति शेषः । इत्यादि. अन्यत् = अपरमपि, स्वयम् = आत्मना एव, समुन्नंयम् = ऊह्यम् ॥ १७३ ॥ ... स्थायिभावं लक्षयति-प्रविरुदा इति । अविरुद्धाः विरोधरहिताः, अनुकुला इति भावः । विरुद्धा वा = विरोधयुक्ताः, प्रतिकूला वा भावाः, यं-भावं, तिरोधातुतिरोहितं कर्तुम, अक्षमाः असमर्थाः, प्राधान्याऽभावादिति शेषः । आस्वादाङकुरकन्दःरसाऽनुभवाऽकुरमूलरूपः, असो - अयं, भावः, “स्थायि" इति सम्मतः = अभिमतः । अयंभवः उद्दीपनादयोऽनुभावादयो व्यभिचारिणश्च भावा: यं तिरोधातुन क्षमन्ते, प्रत्युत रसाविर्भाव यस्यानुकूल्येन साहाय्यमाचरन्ति असो स्थायभावः ।। १७४ ।। . अत्राऽर्थे वृद्धसम्मतिमुपस्थापयति-त्रसूत्रवत्येति । सक्सूत्रवृत्या = पुष्प. माल्यतन्तुन्यायेन, अन्येषाम् - अपरेषामनुमादादीनां भावादीनाम्, अनुगामुकः - अनुगमनशीलः, असो, स्थापीभावः = रस्यादिः, तेः = भावः, न तिरोधीयते = नो बुद्धचविषयीक्रियते, प्रत्युत परम् = अत्यर्थ, पुष्यते = पुष्टः क्रियते, रसरूपता नीत्वेति शेषः ॥१७ और शान्तमें जुगुप्सा ये सब व्यभिचारी भाव हो जाते हैं। परिपक्व बुद्धिवाली. को इत्यादि विषय स्वयम् समझ लेना चाहिए ।। १७३ ॥ . स्थायिभाव-अविरुद्ध (अनुकूल) वा विरुद्ध (प्रतिकूल ) भाव जिसे तिरोहित करनेमें असमर्थ हो जाते हैं रसके अनुभवका मूलरूप वह "स्थायी भाव" माना गया है ।। १७४ ।। ___ जैसे कि कहा गया है-फूलोंकी मालामें जैसे एक ही सूत्र अनुगत होता है उसी तरह अन्य भावोंमें अनुगमन करनेवाला स्थायी भाव किसीसे तिरोहित नहीं होता है बल्कि वह अन्य मावोंसे पुष्ट होता है।
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy