SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ तृतीयः परिच्छेदः २२३ - 'एते च त्रयस्त्रिंशद्व्यभिचारिभेदा' इति यदुक्तं तदुपलक्षणेमित्याह ग्त्यादयोऽप्यनियते रसे स्युर्व्यभिचारिणः । तथाहि शृङ्गारेऽनुच्छिद्यमानतयावस्थानाद् रतिरेव स्थायिशब्दवाच्या, हासः पुनरुत्पद्यमानो व्यभिचार्येव, व्यभिचारिलक्षणयोगात्। तदुक्तम् 'रसावस्थः परं भावः स्थायितां प्रतिपद्यति ।' इति । तत्कस्य स्थायिनः कस्मिन रसे.सञ्चारित्वमित्याह शृङ्गारवीरयाहासो वीरे क्रोधस्तथा मतः ॥ १७२ ॥ एते चेति । त्रयस्त्रिशद्वयभिचारभेदा इति यदुक्त तदुपलक्षणम् । रत्यादीनामपि स्थलान्तरे व्यभिचारिभावत्वादिति भावः। तनिदर्शयति-रत्यादयोऽपीति। रत्यादयोऽपि सामान्यतः स्थायिभावत्वेन प्रसिद्धा रतिहासादयोऽपि, अनियते रसे-स्वनिर्दिष्टरसभिन्ने रसे, यथा रते: स्वनिर्दिष्टरसः शृङ्गारः तद्भिन्नहासाटी रसे रत्यादयो व्यभिचारिणः = व्यभिचारिभावा भवन्ति न स्थायिभावा इति भावः । वताविममर्थ विवणोति -तथाहोति । शृङ्गारे रसे, अनुच्छिद्यमानतया - अनभिभवनीयत्वेन, अवश्यं स्थायित्वेनेति भावः । अवस्थानात् = स्थितेः, रतिरेव = न हासादिरिति भावः । स्थायिशब्दवाच्यः = स्थायिपदेन अभिधेया। एतवपरीत्येन हासः पुनरुत्पद्यमानः = जन्यमानः, व्यभिचारी एव = सञ्चारी एव, व्यभिचारिलक्षणयोगात् == "विशेषादाभिमुख्येने" त्यादिकारिका (पृ० १९४) प्रतिपादितलक्षणसम्बन्धात् । हासः स्वनियतहास्यरसे एव स्थायिशब्दवाच्य इति तात्पर्यम् । तदुक्तं"रसावस्थः परं भाव:०" कारिकार्द्धमिति व्याख्यातपूर्वम् (पृ० ८५)। कस्य स्थायिनः कस्मिन्रसे सञ्चारित्वमिति विविनक्ति-शकारवीरयोरिति । शृङ्गारवीरयोः = सयो, हासः, व्यभिचारितया = सञ्चारितया, मतः = अभिमतः । . नया पुनः धीरे = रसे, क्रोधः, सञ्चारी मतः ॥ १७२ ॥ ये तेतिस व्यभिचारी भावके भेद हैं ऐसा जो कहा गया है वह उपलक्षण है ऐसा बतलाते हैं-सामान्यतः प्रसिद्ध रति आदि भाव भी अनियत अर्थात् स्वनिर्दिष्ट रससे भिन्न रसमें अर्थात् रतिका निर्दिष्ट रस शृङ्गारसे भिन्न हास आदिमें वह (रति) व्यभिचारिभाव हो जाती है। इसी तरह अन्यत्र भी जानना चाहिए। जैसे शृङ्गारमें अविच्छिन्न रूपसे स्थित रहनेमे रति ही स्थायिभार हो जाती है, हास बीच में उत्पन्न होनेसे व्यभिचार भाव हो जाता है, व्यभिचारिभावका लक्षण- घटित होनेसे उस समय हास स्थायिभाव नहीं होता है। जैसे कि रसकी अवस्थाको प्राप्त रति आदि भाव ही स्थायित्वको प्राप्त करता है तब कौन सा स्पयिभाव किस रसमें संचारी होता है यह कहते हैं । शृङ्गार और वीरमें हास, और वीरमें क्रोध ।। १७२ ॥
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy