SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ २२२ साहित्यदर्पणे यथा मम 'कमलेण विअसिएण , संजोएन्ती विरोहिणं ससिबिम्ब । करअलपल्लत्यमुही किं चिन्तसि सुमुहि ! अन्तराहिअहिअआ ?॥' अथ तर्कः तर्को विचारः संदेहाद् भूशिरोऽशुलिनर्तकः ॥ १७१ ।। 'किं रुद्धः प्रियया-'इत्यादि (१५८ पृ०)। चिन्तामुदाहरति-कमलेण इति । संस्कृतच्छाया "कमलेन विकसितेन संयोजयन्ती विरोधिनं शशिबिम्बम् । करतलपर्मस्तमुखी किं चिन्तयसि सुमुखि ! अन्तराहितहृदया।" नायकं चिन्तयन्तीं विप्रयुक्तां नायिका प्रति कस्याश्चित्सख्या उक्तिरियम् । हे सुमुखि = हे सुन्दरि ! अन्तराहितहृदया = अन्तः ( अभ्यन्तरे ) आहितं ( निहितम् ) हृदयं ( चित्तम् ) यया सा तादृशी, एवं च करतलपर्यस्तमुखी = करतलें (हस्ततले ) पर्यस्तं ( पतितम् ) मुखम् ( आननम् ) यस्याः सा, तादशी त्वम्, विकसितेन-प्रफुल्लेन, कमलेन = पद्यन, विरोशिनं = विद्वेषिणम्,' कमलनिमीलनकारित्वादिति भावः । शशिबिम्बं = चन्द्रमण्डलं, संयोजयन्ती = संयुक्तं कुर्वती सती, किं चिन्तयसि = कि व्यायसि ? अत्र करतलं विकसित कमलं, मुखं च शशिबिम्ब, ततस्तादृशे करतले मुख. संयोजनात् कमले तद्विरोधी शशिबिम्बः सयोजित इति भावः । आर्यागीतिश्छन्दः । अत्र नायिकाया हितस्य नायकस्य अनाप्तेः "चिन्ता"। वितर्क लक्षयति-तर्क इति । सन्देहात् = आशङ्काया हेतोः, धूशिरोऽङगुलि. नर्तकः = भ्रवो ( नेत्रलोमनी ) शिरः ( मस्तकः) अगुलयः ( करशाखाः ), ताता नर्तकः ( चालकः ) विचारः = विमर्शः, तर्कः = वितर्कः ॥ १७१॥ वितकमुदाहरति- "कि रुद्धः प्रियया" इत्यादि (विरहोत्कण्ठितोदाहरणे ) तत्र च नायिकाया नायकाऽनागमने अनेकविचाररूपो वितर्कः ।। १७१।। उ०-ग्रन्थकार अपना पद्य देते है-प्रियको चिन्ता करती हुई विरहिणी नायिकाको सखी कह रही है । हे सुन्दरि ! अतःकरणके भीतर अभिप्राय रखती हुई ( अर्थात् प्रकाश न करती हुई ) तुम विकसित कमल ( करकमल) से चन्द्रमण्डल (चन्द्रके समान अपने मुख ) को संयुक्त करती हुई किस बातको चिन्ता कर रही हो? वितक-सन्देहके कारश किसी बातका विचार करना "तर्क" कहा जाता है, इसमें भौहोंका, शिरका और उंगलियोंका चालन होता है ।। १७१।। उ०-"कि रुद्ध प्रिया." इत्यादिः (पृ० १५८ ) ।
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy