SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ २१६ अथ व्रीडा धाष्टर्षाभावो व्रीडा वदनानमनादिकृद् दुराचारात् । 'मयि सकपटम् -' इत्यादि । हर्षस्त्विष्टावाप्तेर्मनःप्रसादोऽश्र गद्गदादिकरः || १६५ ॥ 'समीक्ष्य पुत्रस्य चिरात्पिता मुखं निधानकुम्भस्य यथैव दुर्गतः । मुदा शरीरे प्रबभूव नात्मनः पयोधिरिन्दूदयमूच्छितो यथा ॥' यथा अथ हर्ष: यथा साहित्यदर्पणे व्रीडां लक्षयति- धाष्टर्याऽभाव इति । दुराचारात् = दुष्टक्रियाया हेतोः, वदनाऽऽनमनादिकृत् वदनस्य ( मुखस्य ) आनमनम् ( आनतिः ) तदादिकृत् धाष्टर्याऽभावः = घृष्टता राहित्य, "व्रीडा" । व्रीडामुदाहरति — "मयि सकपटम्" इत्यादि २१३ पृष्ठे ) । पूर्व स्मृताबुढाहरणम् । अत्र तु नायकदर्शनात् नायिकाया वदनानमनकारिण्यां व्रोडायाम् । हर्ष लग्नयति- इष्टाऽवाप्तेः = इष्टस्य ( अभीष्टस्य पदार्थस्य ) अत्राप्तेः ( प्राप्तेर्हेतोः ) अनुगद्गदादिकरः = अश्रु ( नयन जलपात ) गद्गद : ( अस्फुटशब्द ) तदादिकरः, मनःप्रसादः = मनस: ( चित्तस्य ) प्रसादः ( प्रसन्नता ) ' हर्ष. " | तनयस्य हर्ष मुदाहरति- समीक्ष्येति । रघुवंशे रघुजन्मानन्तरं दिलीपस्य हर्षवर्णनमिदम्, पिता = जनकः, दिलीप: । चिरात = बहुकालाऽनन्तरं पुत्रस्य रो:, मुखम् = आननं, समीक्ष्य = दृष्ट्वा यथा येन प्रकारेण, दुर्गतः = दरिद्रः, निधानकुम्भस्य = निधिकलशस्य मुखम् = अग्रभागं दृष्ट्वा इव = अवलोक्य इव, इन्द्रक्ष्यमूच्छितः = इन्दोः ( चन्द्रस्य ) उदयेन ( उद्गमेन ) मूच्छितः ( समृद्धः, समृद्धजल इति भाव: ), पयोधिः समुद्रः यथा इव, मुदा हर्षेण हेतुना, आत्मनः = स्वस्य शरीरे = देहे, देहचेष्टायामिति भावः । न प्रबभूव न समय L = = = = = = व्रीडा - दुराचारके कारण धृष्टताके अभावको “व्रीडा" कहते हैं, इसमें मुखको .. अवनत करना टि कार्य होता है । उ०- "मयि सकपटम्" इत्यादि ( पृ० २१३ ) हर्ष - अभीष्ट पदार्थ की प्राप्तिसे चित्तकी प्रसन्नताको "हर्ष" कहते हैं । उसमें अनुपात और गद्गदस्वर आदि होते हैं ।। १६५ ।। उ०- रघुवंशमें रघुके उत्पन्न होनेपर यह दिलीप के हर्षका वर्णन है । बहुत समय के अनन्तर पुत्र रघुका मुख देखकर पिता दिलीप जैसे कोई दरिद्र निधि कलश के
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy