________________
तृतीयः परिच्छेदः
तत्र दाहमयत्वे भूमीच्छादयः । शैत्यमयत्वे उत्कम्पनादयः । स्पष्टमुदा
हरणम् ।
अथ त्रास:
२१५
निर्घातविद्यदुल्काद्य वासः कम्पादिकारकः ।। १६४ ॥
'परिस्फुरन्मीनविघट्टितोरवः सुराङ्गनात्रासविलोलदृष्टयः । उपाययुः कम्पितपाणिपल्लवाः सखीजनस्यापि विलोकनीयताम्।।'
"व्याधिः " । तस्य तत्तद्धेतुक - कार्यभे दाम्प्रदर्शयति - तत्रेति । तत्र ज्वरव्याधी, दानयत्वे = तापस्वरूपत्वे, भूमीच्छादयः = भूतनेच्छादयः, शैत्यमयत्वे = शीत रूपत्वे, उत्कम्पादयः == वेपथुप्रभृत्यः क्रियाः भवन्तीति शेषः । स्पष्टमुदाहरणम् - "भूमौ पतति तापार्ता विप्रयुक्ता वधूरिव ।
कदली वाऽनिलोद्भूता ज्वरार्ता कम्पते प्रिया ।।" महेश्वरतर्काऽलङ्कारः । त्रासं लक्षयति--निर्घातेत्यादि । निर्घातविद्य दुल्काद्य : निर्घातः ( पवनाहतपनजन्यः शव्दविशेष अथवा भूमिचलनम् ) । विद्युत् ( तडित् ) उल्का ( गगनपतितो रेखाऽऽकारस्ते. पुञ्ज.), तदाद्य: (हेतुभिः) कम्पादि कारक: वेपथुप्रभूतिकर्ता, " त्रासः "।
त्रासमुदाहरति परिस्फुरदिति । किरातार्जुनीयस्थं जलक्रीडावर्णनमिदम् । परिस्फुरन्नविघट्टितोरवः परिस्फुरन्तः ( परितः संचलन्तः ) ये मीना: ( मत्स्या: ) तं विघट्टिताः सन्ताडिता: ) ऊरव: ( सक्थीनि ) यासां ताः अतः त्रासविलोलदृष्टयः = त्रासेन ( भयेन हेतुना ) विलोला ( विशेषेण चञ्चलाः ) दृश्य : ( नयनानि ) थासां ताः, तथा च कम्पितपाणिपल्लवाः = कम्पयुक्तकरकिसलयाः, तादृश्यः सुराऽङ्गनाः= अप्सरसः, सखीजनस्य अपि = वयस्यागणस्य अपि, नायकानां कि वक्तव्यमिति भावः । बिलोकनीयतां दर्शनीयताम्, उपायः समाप्ताः ॥ वंशस्थं वृत्तम् । अत्र सुराङ्गनानां मी विघट्टित्वात्कम्पकारकस्त्रासः ।। । ६४ ॥
यथा →
कहते हैं, उसमें जमीनपर लोटने की इच्छा और कम्प आदि होता है। उसमें तापमय व्याधि में भूमिकी इच्छा आदि और शीतमय व्शधिमें कम्प आदि होते हैं । उदाहरण स्पष्ट है ।
त्रास - वायुमे ताडित् वायुजन्य शब्द वा भूकम्प, बिजली और उल्का (आकाश से गिरा हुआ रेखाssकार तेजः पुञ्ज) इत्यादिसे होनेवाले कम्प आदिके हेतुको " त्रास " कहते हैं । १६४ ।।
उ० – किरातार्जुनीय स्थित जल क्रीडाका वर्णन है । तैरती हुई मछलियोंसे हमें ठोकर लगने से भय से चन्चल नेत्रोंवाली पल्लवके समान हाथोंको कम्पित करनेवाली सुन्दरियां सखियों से भी दर्शनीय भावको प्राप्त हुईं ||