SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ २१४ अथ मतिः यथा - नीतिमागांनुसृत्यादेरर्थ निर्धारण मतिः । स्मेरता धृतिसंतोषौ बहुमानश्च तद्भवाः ॥ १६३ ॥ साहित्यदर्पणे 'असंशयं क्षत्त्रपरिग्रहक्षमा, यदार्यमस्यामभिलाषि मे मनः । सतां हि संदेहपदेषु वस्तुषु प्रमाणमन्तःकरणप्रवृत्तयः ।।' अथ व्याधिः -- व्याधिज्वरादिर्वाताद्य भ्रंशच्छोत्कम्पनादिकृत् । मति लक्षयति- नीतीत्यादिः । नीतिर्मार्गानुमृश्यादेः नीतिमार्गः ( नयशास्त्रम् ) तस्य अनुसृतिः ( अनुसरणं ) तदादेः, आदिपदेन अनुमानादे: हेतोः परिग्रहः || अर्थनिर्द्धारणं = तत्त्वनिर्णयः "मतिः” । स्मेरता मन्दहास्यता, घृतिसन्तोषी - धैर्य परितोषी, बहुमानश्च - अधिक सत्कारच एते विषयाः, तद्भवाः = मतेरुत्पन्ना भवन्तीति भावः ॥ १६३ ॥ = मतिमुदाहरति- प्रसंशयमिति । अभिज्ञानशाकुन्तले कण्वतपोवने शकुन्तलां दृष्ट्वा दुष्यन्तस्योक्तिरियम् । इयं = शकुन्तला क्षत्रपरिग्रहक्षमा = क्षत्रस्य (क्षत्रियस्य ) परिग्रहक्षमा ( विवाहयोग्या ) अत्र विषये संशय: संशयस्य अभाव:, अर्थाभावे अव्ययीभावः । यत् = यस्मात्कारणात्, आयं = श्रेष्ठं, मे मम मनः = चित्तम्, अस्यां = शकुन्तलायाम्, अभिलापि = अभिलाषुकम्, अस्तीति शेषः । पूर्वोक्तं विषयमर्थान्तरन्यासाऽलङ्कारेण द्रढयति--सतामिति । हि यस्मात्कारणात्, सन्देहृपदेषु = शङ्काऽऽस्पदेषु, वस्तुषु=पदार्थेषु सतां = शिष्टानाम्, अन्तःकरणवृत्तयः = चेतोव्यापारा:, प्रमाणं = यथार्थज्ञानबीजभूता भवन्तीति शेषः । अत्र दुष्यन्तस्य नीतिमार्गानुसृतेन आत्मसन्तोषेण शकुन्तलायाः स्वपरिणययोग्यता निर्धारणान्मतिः । वंशस्थं वृत्तम् ॥१६३ ॥ व्याधि लक्षयति - व्याधिरिति । वाताद्य वायुप्रभृतिभिः हेतुभिः आद्यपदेन पित्त कफयोः परिग्रहः । भूमीच्छोत्कम्पनादिकृत् भूमीच्छा ( भूपतनस्पृहा ), उत्कम्पनम् (वेपथ: ), तदादिकृत् ( तदादिकारकः ) ज्वरादिः = ज्वरप्रभृतिः, करनेको "मति" कहते हैं, ... .. -- मति - नीतिमार्ग के अनुसरण आदिसे तत्त्वनिश्चय इसमें मन्दहास्य. धैर्यमन्यो मोर अधिक संमान होता है || ६ || = उ०- कण्व के आश्रम में शकुन्तलाको देखकर दुष्यन्त कहते हैं - यह शकुन्तला क्षत्रिय के विवाह के योग्य है इससे सन्देह नहीं है, क्योंकि मेरा श्रेष्ठ मन इसकी इच्छा करने वाला है । जैसे कि शिष्टों के सन्दिग्ध पदार्थोंमें उनके अन्तःकरण की प्रवृत्ति प्रमाण होती है । व्याधि - वात, पित्त और कफ आदिसे होनेवाले ज्वर आदिको 'व्याधि"
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy