________________
तृतीयः परिच्छेदः
अथ स्मृति:
सदृशज्ञानचिन्ता भ्रूसमुनयनादिकृत् । .
स्मृतिः पूर्वानुभूतार्थविषयज्ञानमुच्यते ॥ १६२ ॥ यथा भम
'मयि सकपटं किंचित्क्वापि प्रणीतविनोचने
किमपि नयनं प्राप्ते तिर्यग्विजम्मिततारकम् । स्मितमुपगतामाली . दृष्ट्वा सलजमवाञ्चितं
कुवलयदृशः स्मेरं स्मेर स्मरामि तदाननम् ।' स्मृति सक्षयति-सवज्ञानचिन्तारिति । सदशज्ञानचिन्ता: सशस्य ( समानस्य पदार्थस्य ) ज्ञानचिन्ता (ज्ञानं = साक्षात्कारः, चिन्ता = भावनाऽऽख्यः संस्कार) तदाद्यः (तत्प्रभृतिभिः)। भ्रूसमुन्नमनादिकृत्-ध्रुवोः (अमिलोम्नोः) समुन्नमनम् (ऊर्वीकरणम्) तदादिकृत, (तदादिकारि) पूर्वाऽनुभूऽनुभूतार्थविषयज्ञानम् (पूर्व-पुरा, अनुभूतः = उपलब्धः, यः अर्थः = पदार्थः, तद्विषयज्ञानं = तद्विषयबोधः) "स्मृतिः" । "संस्कारमांत्रजन्य ज्ञान स्मृतिः" इत्यपरं तल्लक्षणम् ।। १६२ ॥
स्मृतिमुदाहरति-मयोति। मित्रसमीपे कस्यचिनायकस्य वचनमिदम, क्वाऽपि = कस्मिन्नपि पदार्थे, सकपटं = सम्पाजं यथा तया, प्रणीतविलोचने प्रणीते (निक्षिप्ते ) विलोचने (नेत्रे) येन, तस्मिन्, तथाविध मयि, किमपि = केनाऽपि प्रकारेण, नयनं = नेत्रपथं, प्राप्ते = आसादिते सति, तिर्यक् = कुटिलं यथा तथा; विजम्भिततारकं = विजृम्भिते (प्रेरिते ) तारके ( कनीनिके.) यस्य तत्, स्मितं = मन्दहास्यम्, उपगतां = प्राप्तां, मन्दहास्यं कुवंतीमित्यर्थः । तादृशीम आही- सुखी, दृष्ट्वा = विलोक्य, सलज्ज-सव्रीडम्, अतः अवाचितं = नमितं, स्मेरंस योभूयः स्मितयुक्त, कुवलयदशः = उत्पलनयनायाः, तत् = असकृदृष्टम्, माननं = मुखं, स्मरामि = स्मृति विषयीकरोमि । अत्र नायकस्य संस्कारवशेन, पूर्वावलोकितनायिकामुखस्य स्मृतिः। हरिणी वृत्तम् ।। १६२ ।
स्मृति- सदश पदार्थ के ज्ञानकी भावना आदिसे पहले अनुभव किये गये पदार्थविषयक ज्ञानको "स्मृति" कहते हैं । उसमें भौंहोंको ऊपर चढ़ाना आदि क्रिया होती है ।। १६२॥
उ०-कोई गायक अपने मित्रसे कहता है कहापर काय दृष्टि लगाने वाले मेरे उस सुन्दरीसे किसी प्रकार दृष्टिमार्गको प्राप्त होनेपर आँखोंकी पुतलियोंको चक्र कर मुसकरानीवाली सखीको देखकर लज्जासे झुकाये गये मन्दहास्ययुक्त सुन्दराक उस मुखको मैं स्मरण कर रहा हूँ।