SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ २१२ . साहित्यदर्पणे अथ शङ्का परक्रौर्यात्मदोषाधः शङ्काऽनर्थस्य तकणम् । वैवर्ण्यकम्पवैस्वर्यपालिोकास्यशोषकृत् ॥ १६१ ॥ . यथा मम 'प्राणशेन प्रहितनखरेष्वङ्गकेषु क्षपान्ते जातातका रचयति चिरं चन्दनालेपनानि । धत्ते लाक्षामसकृदधरे दत्तदन्तावशते . - क्षामाङ्गीयं चकितमभितश्चक्षुषी विक्षिपन्ती ॥' शङ्कां लक्षयति-परेत्यादि। परकोर्यात्मदोषाद्यः = परस्य ( अन्यस्य ) कोर्यम् ( क्रूरता ) आत्मदोषः (स्वदोषः) तदाद्य : (तदादिभिः हेतुभिः) वैवर्ण्य० कृत् = . ववर्य (विवर्णता ), कम्पः (वेपथुः ), वस्वयं (विकृतस्त्ररता), पाश्र्वाऽलोकः(पार्श्वयोः = बाहुमूलाऽधोभागयोः, आलोकः = अवलोकनम् ) आस्यशोषः ( मुखशोषः ), तत्कृत् (तस्कारकम् ), अनर्थस्य = अनिष्टस्य, तर्कणं = संभावन, "शला" ।। १६१ ॥ ___ शङ्कामुदाहरति--प्राणेशेनेति । इयम् = एषा, क्षामाऽङ्गी = कृशाङ्गी, क्षपान्ते = प्रात काले, जाताऽनङ्का उत्पन्नाशङ्का = सती, सखीनामिति शेषः, चकितं यथा तथा, अभितः = परितः, चक्षुषी = मेत्रे, विक्षिपन्ती = प्रेरयन्ती सती, प्राणेशेन - प्राणेश्वरेण, प्रहितनखरेषु = प्रेहितनखरेषु, कृतनखक्षतेषु इति भावः । अङ्गकेषु = अनुकम्पितदेहाऽत्रयवेषु, पयोधरादिषु इति भावः । चन्दनालेपनानि = श्रीखण्डवलेपनानि, रचयति = विदधाति । तथा प्राणेशेन, दत्तदन्ताऽवधाते = विहितदशनक्षते, अधरे अधरोष्ठे च, लाक्षाम् = अलक्तद्रवम् , असकृत = बार वारं, धत्ते = धारयति । अत्र नायिकया अन्योपहासरूपाऽनर्थस्य तर्कणाच्छङ्का । मन्दाक्रान्ता वृत्तम् ।। १६१ ॥ शवा-दूसरेकी क्रूरता और अपने दोष आदिसे अनिष्टकी संभावना करनेको "श" कहते हैं । उसमें विवर्णता, कम्म, स्वरभङ्ग, अगल बगल झांकना और मुल सूखना इत्यादि होता है ।। १६१ ।। . उ०-ग्रन्थ कारका है । यह कृशोदरी ( नायिका ) रातके बीतनेपर चकित होकर चारों ओर दृष्टिपात करती हुई प्राणेश्वरसे नखक्षत किये गये अङ्गोंमें चन्दनका लेप करती है और प्राणेश्वरके दशनसे क्षत अपने अधरोष्ठको वारंवार लाक्षारागसे रजित करती है।
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy