SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ अथोन्मादः - यथा मम- तृतीयः परिच्छेदः चित्तसंमोह उन्मादः कामशोकमयादिभिः । अस्थानहासरुदितगीतप्रलपनादिकृत् 'भ्रातर्द्विरेफ ! भवता भ्रमता समन्तात् प्राणाधिका प्रियतमा मम वीक्षिता किम् ? ( भंकारमनुभूय सानन्दम् । ) = २११ ॥ १६० ॥ किममिति सखे ! कथया मे किं किं व्यवस्यति कुतोऽस्ति च कीदृशीयम् ? ॥' उन्मादं लक्षयति-चित्तसंमोह इति । कामशोकभयादिभिः = मदनावेशमन्युभीत्यादिभिः हेतुभिः, अस्थानहासादिकृत् अस्थानहासः अस्थाने ( अनवसरे ) हास: (हास्यम् ), रुदितं ( रोदनम् ) गीतं ( गानम् ) प्रलपनम् ( अनर्थकवचभाषणम् ) तदादिकृत् ( तदादिकारक: ) त्रित्तसंमोह: - चित्तस्य ( मनसः ) संमोहः ( वैचित्यं, विवेकाsभाव इत्यर्थः ) । "उन्मादः " ।। १६० ।। उन्मादमुदाहरति-भ्रातरिति । हे भ्रातः द्विरेफः भ्रमर 1, समन्तात् = समन्ततः, भ्रमता = पर्यटता, भवता स्वया, प्राणाऽधिका = प्राणाऽतिरिक्ता, मम, प्रियतमा = वल्लभतमा, वीक्षिता कि = दृष्टा किम् ( झङ्कारम् = झङ्कारशब्दम्, अनुभूय = उपलभ्य, सानन्दं = हर्षपूर्वकम् ) । नायको भूयः कथयति — ब्रूष इति । ओम् इति "ओम् " इदं स्वीकाराऽर्थ कमव्ययम् ओम् एवं दृष्टेत्यर्थः, इति, बूषे कि - कथयसि किं तत् = तहि, मे = मह्यम्, क्रियाग्रहणाच्चतुर्थी । आशु - शीघ्रं कथय - ब्रूहि, कि कि, व्यवस्यति = कतु चेष्टते, कुत्रः कुत्र अस्ति = वर्तते, इयम् = एषा, मदीया प्रिया, कीदृशी = किविधा, अस्ति ? | H B = = अत्र भ्रमरस्योत्तरणाऽसामर्थ्यस्य ज्ञानाऽभावान्नायकस्य प्रलापकारी उन्मादः । वसन्ततिलका वृत्तम् ।। १६० ।। = उन्माद - काम, शोक और भय आदिसे होनेवाले चित्तके संमोहको "उन्माद" कहते हैं, उसमें अनवसरमें - हास्य, रोदन, गाना और प्रलाप ( अनर्थक वचन ) आदि होते है ॥ १६० ।। उ० -- ग्रन्थकारका है । कोई वियोगी पुरुष कह रहा है- हे भैया 'भ्रमर । चारों ओर घूमने वाले तुमने प्राणोंसे भी अधिक मेरी प्रियतमा को देखा है क्या ? झङ्कार ध्वनि सुनकर ओनन्दपूर्वक – हे मित्र ! हाँ ( देखा है ) कहते हो क्या ? तो फिर मुझे शीघ्र बताओ, वह क्या क्या करने की चेष्टा कर रही है ? कहाँ है ? और कंसी ? है । १.
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy