SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ २१० "अथौत्सुक्यम् यथा- साहित्यदर्पणे इष्टानव प्रौत्सुक्यं कालक्षेपासहिष्णुता । चित्ततापत्वरा स्वेददीर्घनिःश्वसितादिकत् ।। १५९ ॥ 'यः कौमारहरः स एव हि वरः - ' इत्यादौ ( १७ पृ० ) अत्र यत् काव्यप्रकाशकारेण रसस्य प्राधान्यमित्युक्तम्, तद्रसनधर्मयोगित्वाद्वयभिचारिभावस्यापि रसशब्दवाच्यत्वेन गतार्थ- मन्तव्यम् । औत्सुक्यं लक्षयति- इष्टाऽनवाप्तेरिति । इष्टाऽनवाप्तेः इष्टस्य. (अभीष्टस्य पदार्थस्य ') अनवाप्तेः ( अप्राप्तेर्हेतोः ), चित्तताप० अदिकृत् = चित्तताप: ( मनस्ताप : ) स्वरां (संभ्रमः ), स्वेद: ( धर्मसलिलम् ) दीर्घनिश्वसितम् ( ऊर्ध्वनिःश्वासः ), तदादिकृत् ( तदादिकारिणी), कालक्षेपाऽसहिष्णुता = कालक्षेपस्य ( समययापनस्य ) असहिष्णुता ( असामर्थ्यम् ) " औत्सुक्यम्" । उत्सुकस्य भावः कर्म वा औत्सुक्यम्, इति तस्य पदस्य व्युत्पत्तिः, ष्यञ् प्रत्यथः ॥ १५९ ।। औत्सुक्यमुदाहरति- "यः कौमारहरः स एव हि वरः " पद्यमिदं प्रथमपरिच्छेदे व्याख्यातपूर्वम् । . प्रत्रेति । अत्रदं पद्यमौत्सुक्यरूपस्य व्यभिचारमा वस्योदाहरणत्वेनोपन्यस्तं परं काव्यप्रकाशकारेण शृङ्गाररसोदाहरणत्वेन विवृतं कथमेतदिति वैमत्यं परिहरति प्रत्रेति । मंत्र = अस्मिन् पद्य, यत् काव्यप्रकाशकारेण = मम्मटभट्ट ेन, रसस्य = संभोगशृङ्गारस्य, प्राधान्यं = मुख्यत्वम् इति उक्तम् = अभिहितम् । तत् = कथनम्, रसनध मंयोगित्वात् = आस्वादधर्मयुक्तस्वात्, व्यभिचारिभावस्य अपि = औत्सुक्यरूपसश्वारिभावस्य अपि रसशब्दवाच्यत्वेन = रसपदाऽभिधेयत्वेन गतार्थ = चरिताऽथं, मन्तव्यं = बोद्धव्यम् । रसे व्यभिचारिभावे चोभयत्राऽपि आस्वादनधर्मसत्वादिति भावः ।। १५९ ।। प्रौत्सुक्य - अभीष्ट पदार्थको न पानेसे समय बिताने के लिए असमर्थताको "ओत्सुक्य" कहते हैं, उसमें मनमें ताप, शीघ्रता, पसीना, दीर्घनिःश्वास आदि होता है ।। १५९ ॥ २० - जैसे- "यः कौमारहरः स एव हि वर: ० ( पृ० १७ ) यहाँपर जो harsenic रसकी प्रधानता कही है वह रसन ( आस्वादन ) धर्मसे युक्त होने से . व्यभिचारिमाव ( प्रकृत- औत्सुक्य ) को भी रसशब्दसे कहे जानेसे गतार्थ समझना चाहिए ( कुछ विरोध नहीं ) ।
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy