________________
२०८
साहित्यदर्पणे
यथा
प्रायश्चित्तं चरिष्यामि पूज्यानां वो व्यतिक्रमात् ।
न त्वेव दूयिष्यामि शस्त्रग्रहमहाव्रतम् ।।' अथ निद्रा
चेतःसंमीलनं निद्रा अम्क्लममदादिजम् । जम्भाक्षिमीलनोच्छ्वासगात्रभङ्गादिकारणम् ।। १५७ ।।
यथा
"सार्थकानर्थकपदं ब्रवती मन्थराक्षरम् । अमर्षमुदाहरति-प्रायश्चित्तमिति । महावीरचारते वशीष्ठादीनुद्दीश्य परशु. रामस्य वचनमिदम् । पूज्यानां प्रतीक्ष्याणां, व:=युष्माक, व्यतिक्रमात् = शस्त्रत्यागरूपोपदेशोल्लङ्घनाद, प्रायश्चित्त = पापविशोधनरूप कम, चरिष्यामि = करिष्यामि, तु = परन्तु, एव = भवदुक्तोपदेशेन, शस्त्रग्रहमहाव्रतम् = आयुधग्रहणरूप महत् कर्म, न दूषयिष्यामि = न दूषितं करिष्यामि, शस्त्रग्रहणपरित्यागेनेति भावः। अत्र रामेण हरधनुषि भग्ने सति स्वगुरोरपमानेन परशुरामस्य अमर्षः ।। १५६ ।।
निद्रा लक्षयति-चेतःसंमीलनमिति । श्रमक्लममदादिजं = श्रमः ( परि. धमः ), क्लमः ( ग्लानिः ) मदः ( मत्तता ) तदादिजं ( तदाद्य त्पन्नम् ) । जृम्भाऽक्षि० कारणम् = जम्प्रः ( ज़म्भणम् ), अक्षिमीलनम् ( नेत्रमुद्रणम् ) उच्छ्वासः ( दीर्घश्वासः ) गात्र भङ्गः ( शरीरप्रसारणम् ), तदादेः, कारण = हेतुभूतं, चेत.सम्मीलनं = चेतसः ( चित्तस्य ) सम्मीलनम् ( भेव्यानाडीप्रवेशेन निश्चलत्वम् ) "निद्रा" ||१५७॥
निद्रामुदाहरति-साऽर्थकाऽनर्थकपदमिति । निद्राणां प्रिया स्मरतः कस्यचित्पुरुस्योक्तिरियम् । निद्रार्धमीलिताक्षी = निद्रया अर्धमीलित ( अर्धमुद्रिते ) अक्षिणी ( नेत्रे ) यस्याः सा । एवं च साऽर्थकानर्थकादं साऽर्थकानि ( अर्थयुक्तानि ) अनर्थकानि ( अर्थरहितानि ) पदानि ( शब्दा: ) यस्मिन् कर्मणि तद्यया तथेति क्रियाविशेषणम् । मन्थराऽक्षर = मन्दवणं यथा तथा, अस्फुटाक्षरं यथा तथेति भावः । ब्रुवती =
उ०-महावीर चरितमें वशिष्ठ आदिमें परशुरामकी उक्ति है । पूजनीय आपलोगोंके वचन के उल्लङ्घनका प्रायश्चित करूंगा, परन्तु शस्त्र ग्रहणके महाव्रतको दूषित नहीं करूंगा।
निद्रा-परिश्रम ग्लानि और मद आदिसे उत्पन्न चित्तकी निश्चलताको निद्रा" कहते हैं, उसमें जमुहाई, आँखोंको मू दना, दीर्घश्वास, और शरीर फैलना आदि कार्य होते हैं ।। १५७ ॥
उ.- मन्द भावसे साऽर्थक और अनर्थक पदको कहती हुई निद्राके कारण