________________
तृतीयः परिच्छेदः
२०५
अथापस्मार:
मनःक्षेपस्त्वपस्मारो ग्रहाद्यावेशनादिजः ।
भूपातकम्पप्रस्वेदफेनलालादिकारकः ॥१५४ ।। 'आश्लिष्टभूमि रसितारमुच्र्लोलभुजाकारबृहत्तरङ्गम् । फेनायमानं पतिमापगानामसावपस्मारिणमाशशङ्के । अथ गर्वः
गर्वो मदः प्रभावश्रीविद्यासत्कुलतादिजः । अवज्ञासविलासाङ्गदर्शनाविनयादिकृत् ॥१५४ ।। ।
अपस्मार लक्षयति-मनःक्षेप इति। ग्रहाद्यावेशनादिजः = सूर्याद्यधिष्ठा. नादिजन्यः, आदिपदेन वातादिधातुवैषम्यपरिग्रहः । भूपातकारकः = भूपातः ( भूमिनिपतनम् ) कम्पः ( वेपथुः, ), प्रस्वेदः (धर्मसलिलम् ), फेनः ( मुखे कफविकार ) लाला ( सृणिका ), आदिपदेन चैतन्या भावपरिग्रहः इत्यादिकारकः, मनःक्षेपः = चितप्रेरणं, विषयग्रहणाऽसामर्थ्यमिति भावः । सोऽयमपस्मार: ।। १५३ ।।।
अपस्मारमुदाहरति-प्राश्लिष्टभमिमिति । शिशुपालवधमहाकाव्ये समुद्रवर्णनमिदम् । असो = श्रीकृष्णः, आश्लिष्टभूमिम् = आलिङ्गितधरणीकम्, उच्चैः = तारस्वरेण, रसितारं - शब्दं कुर्वन्त, लोलद्भुजाकारवृहत्तरङ्ग = लोलन्तः ( चलन्तः ) भुजाकाराः ( बाहुसदृशाः ) बृहन्तः ( महान्तः ) तरङ्गाः (भङ्गाः) यस्य सः, तम्, फेनाय मानं = फेनमुद्वमन्तम्, आपगाना = नदीनां, पति = स्वामिनं, समुद्रमित्यर्थः, अपस्मारिणम् =अपस्माररोगयुक्तम्, आशशङ्क-आशङ्कितवान् । अत्र समुद्रे आरोप्यमाणः पुरुषे स्मर्यमाणो भूपात फेनकारकोऽपस्मारः उपजातिवृत्तम् ।। १५३ ॥
गर्व लक्षयति-गर्व इति । प्रमावादिजः = प्रभावः (प्रतापः, राज्ञः कोश. दण्डादिजन्य इति भावः ). श्रीः ( सम्पत्तिः ), विद्या ( शास्त्रादि: ) सत्कुलता ( महा. वंशोत्पत्तिः), तदादिजः, अवज्ञादिकृत् = अवज्ञा ( शत्रुषु अनादरः) सविलासम्
अपस्मार-ग्रह आदिके आवेश आदिसे उत्पन्न मनके विक्षेपको "अपस्मार" कहते हैं । उसमें भूमिपतन, कम्प, प्रस्वेद, फेन और लार आदि होते हैं ।। १५३ ॥
उ०-शिशुपालवध महाकाव्य में समुद्रका वर्णन है। भगवान् श्रीकृष्णने पृथ्वीको आलिङ्गन करनेवाले, ऊंचा शब्द करते हुए भुजाओंकी सदृश बड़ी बड़ी तरङ्गों से युक्त बोर फेनको निकालते हुए समुद्रको अपस्मारी (मिरगी रोगवाला ) समझ लिया।
-प्रभाव, सम्पत्ति, विद्या और विशाल कुलमें उत्पत्ति, इत्यादि गुणोंसे