________________
साहित्यदर्पणे
अथ स्वप्न:
स्वप्नो निद्रामुपेतस्य विषयानुभवस्तु यः । कोपावेगभयग्लानिसुखदुःखादिकारकः ॥ १५२ :
यथा
'मामाकाशप्रणिहितभुजं निर्दयाश्लेषहेतो
लब्धायास्ते कथमपि मया स्वप्नसन्दर्शनेन । पश्यन्तीनां न खलु बहुशो न स्थलीदेवतानां
मुक्तास्थूलास्तरुकिसलयेष्वथलेशाः पतन्ति ।।'
स्वप्नं लक्षयति-स्वप्न इति । कोपावेगादिका रकः = कोपः ( क्रोधः ), आवेगः ( संम्रमः ), भयं ( भीतिः ), ग्लानिः (ग्लानता ), सुखं ( हर्षः ), दुःखं ( कष्टम् ) तदादिकारकः, निद्राम् = स्वापम्, उपेतम्य = प्राप्तस्य, यः विषयाऽनु भवः= पदार्थाऽनुभूतिः, स "स्वप्न.” ॥ १५२ ॥
स्वप्नमुदाहरति- मामिति । मेघदूते यक्षस्य मेघद्वारा पत्नी प्रत्युक्तिरियम् । मया = यक्षेण, स्वप्नसन्दर्शनेन = स्वापविलोकनेन, कथमपि-महता कष्टेन, लब्धाया:= प्राप्तायाः, ते = तद, प्रियाया इत्यर्थः । निर्दयाऽऽश्लेषहेतोः = गाढालिङ्गनकारणस्य, आकाशप्रणिहितभुजम् = अम्बरोतोलितबाहुं, शून्याऽपितबाहुमिति भावः : मां = यक्षं, पश्यन्तीनां =: विलोकयन्तीनां, स्थलीदेवतानां = वनदेवतानां, मुक्तास्थूलः: - मोक्तिकतुल्यस्थुलाकाराः, अश्रुलेशाः = नयनजलबिन्दवः, तरुकिसलयेषु = वृक्षपन्लवेषु, बहुश:= अनेकवारं, न पतन्ति न = न स्खलन्ति इति न अपि तु पतन्त्येव । तादृशं विप्रयुक्त मां दृष्ट्वा वनदेवता अपि अधूणि मुञ्चन्तीति भावः ।
अत्र यक्षस्य प्रियतमालिङ्गनार्थमाकाशे भुजप्रणिधानकारक: स्वप्न । उपमा:लङ्कारः । मन्दाक्रान्ता वृत्तम् ।। १५२ ।।
स्वप्न-निद्रित पुरुषके विषयके अनुभवको "स्वप्न" कहते है । उसमें क्रोध, घबड़ाहट, भय, ग्लानि, सुख और दुःख आदि होते हैं ।। १५२ ।।
उ०-यक्ष मेघसे, पत्नीका सन्देश कह रहा है-"हे प्रिये ! स्वप्न देखनेके अवसर. में मुझसे जब तुम किसी प्रकार पाई जाती हो तब तुम्हारे गाढ आलिङ्गनके लिए .आकाशमें हाथोंको फैलाये हुए मुझको देखती हुई बनदेवताओं की मोतियोंके समान बड़ी
आँसुओंकी बूदें वृक्षोंके पल्लवोंमें कई वार नहीं गिरती है क्या ? अर्थात् गिरती ही रहती हैं।