________________
तृतीयः परिच्छेदः
२०३
अथ विबोध:
निंद्रापगमहेतुभ्यो विबोधश्चेतनागमः । जुम्भाङ्गभङ्गनयनमीलनाङ्गावलोककृत् ॥१५१ ॥
यथा
'चिररतिपरिखेदप्राप्तानिद्रासुखानां ___ चरमनपि शयित्वा पूर्वमेव प्रबुद्धाः। अपरिचलितगात्रा कुर्वते न प्रियाणा
मशिथिलभुजचक्राश्लेषभेदं तरुण्यः ॥' व्यसना = अविदितपतिविपत्तिः सती, मुहूर्त = कंचित्कालं, कृतोपकाग इव = विहितोपकृतिः इव, बभूव = संवृत्ता । अत्र पतिनिधनेन रतेर्मोहः । उपजातिवृत्तम् ।। १५०॥
विबोधं लक्षयति-निद्राऽपगमहेतुभ्य इति । निद्राऽपगमहेतुभ्यः = स्वापाsभावकारणेभ्यः, जृम्भाऽऽदिकृत् = जम्मा (जृम्भणम् ), अङ्गभङ्गः ( शरीराऽवयवभङ्गः ) नयनमीलनम् ( नेत्रोन्मीलनम् ) अङ्गाऽचलोक ( शरीराऽवयवविलोकनम् ) इत्यादिव्यपारकृत, चेतनाऽऽगमः = चैतन्यप्राप्तिः, "विबोधः" ।। १५१ ।।
विबोधसुदाहरति-चिरेति। चरम = पश्चिम, प्रियस्वापाऽनन्तरम् इति भावः, शयित्वा अपि = शयनं कृत्वाऽपि, पूर्वम् एव = प्रिया प्रथमम् एव, प्रबुद्धाः = जागरिताः, तरुण्यः = युवतयः, अपरिचलितगात्राः = अचलितदेहाऽवयवाः, सत्यः, प्रियनिद्राभङ्गभीतेरिति शेषः, चिररतिपग्खेिदप्राप्तनिद्रासुखाना = चिरं (बहुकालं यावत् ), या रतिः (सुरतम्), तेन यः परिखेदः (परिश्रम ), तेन प्राप्तम् (आसादितम्) निद्रासुखं ( स्वापानन्दः ) यः, तेषाम् । प्रियाणा कान्तानाम्, अशिथिलभुजचक्राऽऽश्लेषभेदम् गाढबाहुमण्डलाऽऽलिङ्गभङ्ग, न कुर्वते = न विदधति । अत्र युवतीनां विबोधः । मालिनी वृत्तम् ।। १५ ॥ की अवस्था का वर्णन है । रति देवी दुःसह शोकसे उत्पन्न और इन्द्रियोंकी वृत्ति रोकने वाली मूर्छासे पविपत्तिके अनुभव से रहति होकर कुछ समय तक उपकृत. सो हो गई।
विबोध-निद्रा हर कारणोंसे चैतन्यके आगमनको "विबोध" कहते हैं। इसमें जमुहाई, अंगड़ाई नेत्राको खोलना, और अङ्गोंको देखना इत्यादि कार्य होता है ।। १५१॥
उ.-प्रियके पीछे सोकर भी पहले ही जगी हुई तरुणियां प्रियके जागनेके भयसे शरीरको न हिलाती हुई बहुत समय तक रतिक्रीडाके परिश्रमसे निद्रासुखको प्राप्तः । पतिके गाढ बाहुमण्डलके आलिङ्गनका भङ्ग नहीं करती हैं ।।।