SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ २०२ अथ मोह: यथा साहित्यदर्पणे ललितशिरीषपुष्पहननेरपि ताम्यति यत् । वपुषि वधाय तत्र तव शस्त्रमुपक्षिपतः पततु शिरस्यकाण्डयमदण्ड इवैष भुजः ॥' मोहो विचित्तता भीतिदुःख। वेगानुचिन्तनैः । मूच्र्छनाज्ञानपतनभ्रमणादर्शनादि कृत् ।। १५० ।। 'तीव्राभिषङ्गप्रभवेण वृत्ति मोहेन संस्तम्भयतेन्द्रियाणाम् । अज्ञातभर्तृव्यसना मुहूर्त कृतोपकारेव रतिर्बभूत्र ॥' ललित शिरीषपुष्पहननैः अपि = ललितानि ( कोमलानि ) यानि शिरीषपुष्पाणि ( शिरीषकुसुमानि ), तं हननंरपि ( प्रहारैरपि ), ताम्यति = ग्लायति । तत्र = तस्मिन् वपुषि : = मालत्याः शरीरे, शस्त्रम् = आयुधं, खड्गरूपम्, उपक्षिपतः प्रेरयतः; तव = अघोरघण्टस्य, शिरसि = मस्तके, अकाण्डयमदण्ड इव अकाण्डे ( अनवसरे ) यमदण्ड इव ( कृतान्तदण्ड इत्र ), एषः समीपतरवर्ती, भुजः = बाहु:, ममेति शेषः, पततु | = पातं करोतु | अत्राऽघोरघण्टाऽपराधेन माधनस्योप्रता । अत्रोपमालङ्कारः । कुटकं वृत्तम् || १४९ ।। = -- मोहं लक्षयति- मोह इति । भीतिदुःखाऽऽवेगाऽनुचिन्तनः = भीति: ( भयम् ), दुःखम् (व्यथा ), आवेग: ( संभ्रमः ), अनुचिन्तम् ( अत्यन्त चिन्ता ), तैर्भीत्यादिभिः, हेतुभिः, मूर्च्छनाज्ञानपतन भ्रमणादर्शनादिकृत् = मूर्च्छनम् ( मूर्च्छाकरणम् ) अज्ञानम् ( अल्पज्ञानम् ) पतनं ( स्खलनम् ), भ्रमणम् (अनवस्थानम् ) अदर्शनम् ( दर्शनाSSभाव: ) इत्यादिविकारकृत विचितता = ज्ञानलोपः " मोहः " ।। १५० ।। मोहमुदाहरति- तीव्राऽभिषङ्गप्रभवेणेति । कुमारसंभवे चतुर्थ सर्गे मदनदहनाऽनन्तरं रतेरवस्थावर्णनमिदम् । रतिः = मदनपत्नी, तीव्राऽभिषङ्गप्रभवेण = तीव्र: ( तीक्ष्ण:, दुःसह इतिभावः ) य: अभिषङ्गः ( शोकः, पतिदाहजन्य इति भाव: ), तत्प्रभवेण ( तज्जन्येन ), इन्द्रियाणां = श्रोत्रादीनां हृषीकाणाम्, वृति = शब्दादिविषयग्रहणव्यापार, संस्तम्भयता = प्रतिबधनता, मोहेन = मूच्छंया हेतुना, अज्ञातभर्तृशिरीष पुष्पोंके प्रहारसे भी जो ( मालतीका) शरीर म्लान हो जाता है । वैसे शरीर में मारने के लिए शस्त्र उठाते हुए तेरे शिरपर अचानक पड़नेवाले यमराजके दण्डके समान यह मेरा बाहु पड़े | - मोह - भय, दुःख, घबड़ाहट और अधिकचिन्तासे उत्पन्न चेतनाशून्यताको "मोह" कहते हैं । उसमें मूर्च्छा, अज्ञान, पतन, भ्रमण और अदर्शन आदि होते हैं । १५० । उ०- यह कुमारसभव में महादेव के नेत्राग्निसे कामदेवके दाहके अनन्तर रति
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy