________________
१९८
साहित्यदर्पणे
क्षत्रकोपदहनाचिष ततः सन्दधे दृशमुदप्रतारकाम् ॥'
एषमन्यदूह्यम् । अथ देन्यम्
दौर्गत्याधरनौजस्यं दैन्यं मलिनतादिकृत् ।। १४५ ।।
यथा
वृद्धोऽन्धः पतिरेष मञ्चकगतः, स्थूणावशेषं गृहं,
कालोऽभ्यर्णजलागमः, कुशालनी वत्सस्य वार्तापि नो। यत्नात्सश्चिततैलबिन्दुघटिका भग्नेति पर्याकुला
दृष्ट्वा गर्भभरालपां निजवधूं श्वश्रूश्चिरं रोदिति ॥ स्थाने, क्षत्रकोपदहनाविष:क्षत्त्रेषु ( क्षत्रियेषु ) कापः ( क्रोधः ) एव दहनः (अग्निः), तस्य अषिम् ( ज्वालारूपाम् ), उदग्रतारकाम्-उन्नतकनीनिकां, दृशं दृष्टि, सन्दधे संहितवान् । अत्र दशरथस्य शत्रुरूपस्य भार्गवस्य दर्शने आवेगः । रथोद्धता वृत्तम् ।।
देयं लक्षयति-दोर्गत्याधरिति दोगत्याद्य:= दारिद्रयादिभिः, आद्यपदेन, इष्टाऽलाभेन चिन्तया द, भलिनताऽऽदिकृतं = मालिन्यादिकारकम्, अनौजस्यं = तेजोहानिः, "दैन्यम्" ।। १५१ ।।
दन्यमुदाहरति-वद्ध इति । वृद्धः = जरठः, अन्धश्च = नयनविकलश्च, एषः= अतिसन्निहितः, पतिः = मम मा, मञ्चकगतः = खट्वास्थितः, चलितुमसमर्थ इति भावः । गृहं = मदीयं गेह, स्थूणाऽवशेष-स्तम्भमात्राऽवशेषम् उपरिपटलपतनेनेति शेषः । कालः = समयः, अभ्यर्णजलागमः = निकटवर्षतुः, अतो गृहभङ्गमयं संभाव्यमिति शेषः । वत्सस्य = पुत्रस्य, देशान्तरगतस्येति शेषः; पार्ता = प्रवृत्तिः, कुशलिनी = कुशलसूचिका, नो = न आप्यते । यत्नात् = प्रयासात्, सश्चिततैलबिन्दुघटिका = अचितस्नेहपृथतक्षुद्रपात्रम्, मग्ना-प्राप्तभङ्गा, इति = कारणात्, पर्याकुला-अतिशयखिन्ना, श्वश्रूः । निजवधू - स्वस्नुषां, गर्भभराऽलसां-भ्रूण मारेणालस्थमन्थरां, दृष्ट्वा-विलोक्य, चिरं बहुसमयं यावत्, रोदिति = अश्रूणि विमुञ्चति ।। शार्दूलविक्रीडितं वृतम् ।। १४५ ।। ओर क्षत्रियोंके प्रति कोपाऽग्निकी ज्वालास्वरूप ऊंची पुतलीपाली दृष्टिका सन्धान किया । यह रघुवंशका पद्य है।
देन्य-दारिद्रय आदिसे उत्पन्न तेजके अमावको दैन्य ( दीनता) कहते हैं, उससे मालिन्य आदि होता है !! १४४ ॥
-उ०-बुढ्ढे और अन्धे ये पति खटियापर पड़े हैं, घरमें खाली स्तम्भ बाकी रहा है । प्रचुर वृष्टि होनेका समय है । पुत्रकी कुशलवात भी नहीं मिल रही है । यत्नसे सञ्चित तैलबिन्दुका छोटा-सां पात्र भी फूट गया है इस कारणसे अत्यन्त आकुल सास गर्भके भारसे अलसाई हुई अपनी पुत्रवधु (बहू) को देखकर बहुत समयतक रोती रहती है।