________________
तृतीयः परिच्छदः
१९९
अथ श्रमः
खेदो रत्यध्वगत्यादेः श्वासनिद्रादिकृच्छमः ।
यथा
'सद्यः पुरीपरिसरेऽपि शिरीषमृद्वो
सीता जवास्त्रिचतुराणि पदानि गत्वा । गन्तव्यमस्ति कियदित्यसकृब्रुवाणा ।
रामाश्रणः कृतवती प्रथमावतारम् ॥'
अथ मदः--
संमोहानन्दसंभेदो मदो मद्योपयांगजः ।। १४६ ।। अमुना चोत्तमः शेने, मध्यो हसति गायति ।
श्रमं लक्षयति-खेव इति । रत्यध्वगत्यादेः = रतिः ( निधुवनम् ), अध्व. पत्यादेः = मार्गगमनादेः, आदिपदाद्भारवहनादिपरिग्रहः । श्वासनिद्रादिकृत्-उच्छवासस्वापादिकारकः, खेदः = आयातः, "श्रमः"
___ श्रममुदाहरति--- सद्य इति । वनवासकाले सीताया अवस्थावर्णनम् । शिरीष. मृती - शिरीषकुसुमकोमला, सीता-जानको, पुरीपरिसरे = अयोध्यानगरीपर्यन्तभुवि, सद्य. = सपदि एव, जवात् = वेगात्, त्रिचतुराणि-त्रिचतुःसंख्यकानि, पदानि गत्वा= पादन्यासान् विधायेति भावः । कियत्-किंपरिमाणं, गन्तव्यं -गमनीयम्, वन इति शेषः । अस्ति = वर्तते, इति = इत्थम्, असकृत-वार वारं, ब्रुवाणा भाषमाणा सती, रामाऽ भ्रूणः = रामनयनसलिलस्य, प्रथमाऽवतारं = प्राथमिकोद्गम, कृतवती = अकार्षीद । अत्र सीतायाः श्रमो वगितः । वसन्ततिलका वृत्तम् ॥ १५२ ॥
मदं लक्षति-सम्म हेति। मद्योपयोगजः - आसवपानतः, सम्मोहानन्द. संभेदः = वैचित्यहर्षमिश्रणं, "मदः" । मदस्य कार्यविणे प्रदर्शयति अनगि अमुना = मदेन, उत्तमः = धीरस्वभावो जनः, शेते = स्वपिति, मध्यः = म-यमस्वभावो
धम-रतिक्रीडा और मार्ग में चलन आदिसे उत्पन्न खेदको "श्रम" कहते हैं। उससे श्वासकी अधिकता और निद्रा आदि होती है ।
उ-शिरीष पुष्पके समान कोमल सीताजीने अयोध्यापुरीके पास भी वेगसे तीन चार पग तक चलकर "कहाँ तक चलना है" ऐसा वारंवार पूछकर रामके आँसूका पहला आविर्भाव कर डाला।
मद-मद्यके उपयोगसे उत्पन्न बेहोशी और आनन्दके मिश्रणको "मद" कहते हैं ।। १४६ ॥ - इस मदसे उत्तम पुरुष सोता है, मध्यम पुरुष हँसता है और गाता है और