SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ तृतीयः परिच्छेदः १९७ उत्पातजे सम्तताऽङ्गे, धूमाद्याकुलताऽग्निजे ।। १४३ ॥ राजविद्रवजादेस्तु शस्त्रनागादियोजनम् । गजादेः स्तम्भकम्पादि, पास्वाद्याकुलताऽनिलात् ।। १४४ ॥ इष्टाद्धर्षाः, शुचोऽनिष्टाज्ज्ञेयाश्चान्ये यथायथम् । तत्र शत्रजो यथा 'अर्घ्यमय॑मिति वादिनं नृपं सोऽनवेक्ष्य भरताग्रजो यतः । सङ्कुचिताऽवयवत्वं भवति । उत्पात जे-उपसर्गजन्ये आवेगे-अङ्गे देहाऽवयवे, मस्तताशिथिलता, अग्निजे-अनल जन्ये आवेगे-धूमाद्याकुलता-घूमतापादिव्याकुलता ।। १४३ ॥. राजविद्रय जादेस्तु = राजपलायनजन्यप्रभृतेः अवेगात् तु, अत्राऽऽदिपदेन शत्रुज आवेगो गृह्यते, ततश्च शस्त्रनागादियोजनम् आयुधगजादिसंग्रहणं भवति, अत्रादिनदादश्वा. दीनां परिग्रहो भवति । गलादेः =हस्त्यादेः आवेगात्, अत्र पुनः गजपदेन आरण्यकगजस्य परिग्रहः, एवं च आदिपदेन अन्यारण्यकपशूनां परिग्रहो बौद्धव्यः, ततश्च, स्तम्भकम्मादि स्तब्धता-वेपथुप्रभृतिः, अत्राऽऽदिपदेन मूर्छादेः परिग्रहः, तादृशं कार्य भवति । अनिलात्= वायोः, जायमानाशवेगादिति शेषः । पास्वाद्याकुलता = धूल्यादिव्याकुलता, अत्राऽदि. पदेन, तृणपर्णादीनां परिग्रहः ।। १४४ ।। इष्टात् = अभीष्टादावेगात् हर्षाः = आनन्दाः, अनिष्टात् = अप्रियादावेगात् शुचः = शोकाः, इत्थं च अन्ये = अपरेऽपि आवेगाः, अनयव दिशा, यथायथं = यथास्वं, परिकल्पनीया इति शेषः । तत्र शत्रुजमावेगमुदाहरति-अयमयमिति । रघुवंशे रामादीनां परिणयाs. नन्तरमयोध्यागमनकाने परशुरामस्य वर्णनमिदम् । सः = परशुरामः, अयम् अयम् = अर्घार्थमुदकम् अर्घार्थमुदकम्, आनीयतामिति शेषः । इति = इत्थं, वादिनं = कथयन्तं, नृपं = राजानं, दशरथमिति भावः अनवेक्ष्य = अदृष्ट्वा , उपेक्ष्येति भावः । यतः = यस्मिन् स्थाने. सार्वविभक्तिकस्तसिः । भरतागजः = दाशरथी रामः, ततः = तस्मिन् सङ्कुचित होता है उत्सातजन्य आवेगमें शरीरमें शिथिलता होती है और अग्निजन्य आवेगमें धूम और ताप आदिसे व्याकुलता होती है ॥ १३ ॥ __राजाके भागने आदि आवेगमें हथियार और हाथी आदिको योजना, हाथी आदिसे होनेवाले आवेगमें स्तम्भ और कम्प आदि, वायुसे होनेवाले आवेगमें धूलि आदिसे आकुलता होती है । १४४ ।। अभीष्ट आवेगसे हर्ष, अनिष्ट आवेगसे शोक होता है, और भी यथायोग्य जानने चाहिए। शत्रुजन्म मावेग - उ० । परशुरामजीने "अर्घ्य लाओ अर्घ्य लाओं" ऐसा कहनेवाले राजा दशरथकी अपेक्षा ( परवाह ) न कर जिस ओर रामचन्द्रजीरे उसी
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy