________________
तृतीयः परिच्छेदः
१९५
स्थिरतया वर्तमाने हि रत्यादौ निदादयः प्रादुर्भावतिरोभावाभ्यामाभिमुख्येन चरणाद् व्यभिचारिणः कध्यन्ते । के त इत्याहनिवेदावेगदैन्यश्रममंदजडता औग्रघमोहौ विवोधः खप्नापस्मारगर्वा मरण मलसतामर्षनिद्रावहित्थाः । औत्सुक्योन्मादशङ्काः स्मृतिमतिसहिता व्याधिसंत्रासलज्जा हर्षासूयाविषादाः सधृतिचपलता ग्लानिचिन्तावितकोः ।।१४१॥
विवृणोति-स्थिरतयेति । स्थिरतया स्थैर्येण, वर्तमाने विद्यमाने, रत्यादी स्थायिभाव इति भावः। निदादयः = अभिधास्यमानाः, प्रादुर्भावतिरोभावाभ्यां = प्रकाशाऽप्रकाशाभ्याम्, आभिमुख्येन = सांमुख्येन, रसव्यञ्जनार्थमिति शेषः । चरणात् = प्रवर्तनात्, व्यभिचारिणः = व्यभिचारिभावाः । कथ्यन्ते = प्रतिपाद्यन्ते ।। १४० ॥ ___व्यभिचारिभावानुद्दिशति-निवेदावेगेति । निर्वेदः = वैराग्यम्, आवेगः = संभ्रमः, दैन्य = दीनता, श्रमः = परिश्रमः, मदः=मतता, जडता = सन्धत्वम् । औग्र्यं = क्रूरता, मोहः- मूढता । विबोधः = प्रबोधः । स्वप्नः = स्वापः, अपस्मार:= मनाक्षेपः, गर्वः = अहङ्कारः, मरणं = मृत्युः । अलपता = आलस्यम् । अमर्षः:: असहनं, निद्रा = चित्तसंमीलनम् । अवहित्था = आकारगुप्तिः । औत्सुक्यम्-उत्सुकता, उन्मादः = चिनविभ्रमः। शङ्का = अनर्थतकः, स्मृतिः= स्मरणम्, मतिः = अर्थनि. भयबुद्धिः । व्याधिः == रोगः, संत्रासः = भीतिः । लज्जा = व्रीडा । हर्षः = मानन्दः, असूया = गुणेषु दोषाविष्करणम् । विषादः = खेदः । धृतिः = मन्तोषः । चपलता= चावल्यम् । ग्लानिः = इर्षक्षयः, चिन्ता = आध्यानं, वितर्क: = विचारः । उद्देशक्रमेण व्यभिचारिभावानामेककशः पर्यायाः प्रदर्शिताः । अनुपदमेव सर्वेषां लक्षणानि प्रतिपादयिष्यन्ते । स्रग्धरावृत्तम् ॥ ११ ॥
स्थिरतासे वर्तमान रति आदिमें निर्वेद आदि प्रादुर्भाव और तिरोभावसे रसव्यञ्जनके लिए संमुख होकर संचरण करनेसे "व्यभिचारिभाव" कहे जाते हैं।
व्यभिचारी भावका परिगणन-निर्वेद, आवेग, दैन्य, श्रम, मद, जडता. श्रोग्य, मोह, विवोध, स्वप्न, अपस्मार, गर्व, मरण, बलसता, अमर्ष, निद्रा, अहित्या, औत्सुक्य, उन्माद, शङ्का, स्मृति, मति, व्याधि, संत्रास, लज्जा, हर्ष, असूया, विषाद, द्य ति, चपलता, ग्लानि, चिन्ता, और वितर्क ये तेतिस व्यभिचारी भाव हैं ।। १४१॥