________________
१९४
साहित्यदर्पणे
कपोलो धर्माद्रौं, ध्रवमुपरताशेषविषयं
मनः सान्द्रानन्दं स्पृशति झटिति ब्रह्म परमम्॥ एवमन्यत्। अथ व्यभिचारिणः
विशेषादाभिमुख्येन रणाद्वयभिचारिणः ।
स्थायिन्युन्मग्ननिमग्नास्त्रयस्त्रिंशच तद्भिदाः।। १४० ॥ अखिलं = समस्तम्, अङ्ग = देहाऽवयवः, जडता = स्तम्भ, व्रजति = प्राप्नोति । कपोलो = गण्डो, धर्मार्टो-धर्मण ( स्वेदेन ) आद्रौ ( क्लिन्नौ ), सम्जाताविति शेषः । उपरताऽशेषविषयम् उपरताः (निवृत्ताः), अशेषाः(समस्ताः)विषयाः (ज्ञेयाः) यस्मात्तत्, तादृशं मनः = चित्तम, ध्रुवं = निश्चितं, सान्द्रानन्दं = सान्द्रः ( धनः ) आनन्दः (सुखम् ) यस्मिस्तत्, तथाविधं, परमम् = अनिर्वचनीयं, ब्रह्म = शुद्धचैतन्यं, झटिति % सत्वरं, स्पृशति = आमृशति, साक्षात्करोतीति भावः । मनो ब्रह्मानन्दे प्रलोनमिति तात्पर्यम् । ब्रह्मनिविष्टमानसस्य यथा चेष्टाबाह्यज्ञानोपरमो भवति तथैव नायिकानिविष्टचेतसो जनस्याऽपीति निष्कृष्टोऽर्थः । अत्र रोमाञ्चस्तम्भस्वेदप्रलयरूपाः सात्विका भावाः प्रतिपादिताः । शिखरिणी वृत्तम् । . ..
एवमन्यम् । , तद्यथा-"बाले ! नाथ ! विमुञ्च मानिनि ! रुपम्" (पृ.१४२) इत्यत्र स्वरभङ्गः, "मा गर्वमुदह" (पृ. १७६ ) इत्यत्र वेपथः । “शोणं वीक्ष्य" (पृ. ११७) इत्यत्र वैवयंमत्रु चेति रामचरणतकंवागीशः। ___ व्यभिचारिभावं लक्षयति-विशेषादिति । विशेषाद अतिरेकाद, विभावाsनुभावापेक्षयेति शेषः । आभिमुख्येन=सांमुख्येन रसप्रकाशनार्थमिति शेषः । चरणात सचरणात, तथा स्थायिनि = रत्यादौ स्थायिभावे, उन्मग्ननिर्मग्नाः = उन्मग्नाः (प्रादुर्भूताः, जले बुबुदवदिति शेषः ) निर्मग्नाः (तिरोभूताः, बिलम्बप्रतीतिकत्वेनेति रोषः ), तादृशा व्यभिचारिणः कथ्यन्ते । तद्भिदाः= तभेदाः, त्रयस्त्रिशद =प्रयस्त्रिसत्संख्यकाः, सन्तीति शेषः ॥ १४० ॥ रोमाञ्चयुक्त होकर स्तब्ध भावको प्राप्त हो रहा है। कपोल पसीनेसे आर्द्र हो रहे हैं । समस्त विषयोंके निवृत्त हो जानेसे गाढ मानन्दवाला मन झटपट परम ब्रह्मका साक्षात्कार कर रहा है। इस पद्यमें रोमान्च, स्तम्भ, स्वेद और प्रलय इतने सात्त्विक भावोंका प्रतिपादन है । औरों को भी इसी तरह जानना चाहिए।
. व्यभिचारी भाव--विशेष रूपसे सांमुख्यसे संचरणके कारण तथा रति आदि स्थायिभावमें कभी प्रकट और कभी तिरोभूत होनेसे "व्यभिचारिभाव" कहे जाते हैं। उनके भेद तेतिस होते हैं ।। १४० ।।