________________
तृतीयः परिच्छेदः
मदसंभदपीडाद्य स्वयं गद्गदं विदुः । रागद्वेषश्रमादिभ्यः कम्पो गात्रस्य वेपथुः ।। १३८ ॥ विषादमदरोपाद्य वर्णान्यत्वं विवर्णता । अश्रु नेत्रोद्भवं बारि क्रोधदुःखप्रहर्पजम् ॥ १३९ ॥
प्रलयः सुखदुःखाभ्यां चेष्टाज्ञाननिराकृतिः । यथा मम-'तनुस्पर्शादस्या दरमुकुलिते हन्त ! नयने,
उदश्चद्रोमाञ्चं व्रजति जडतासङ्गमखिलम्। मदसम्मदपीडाद्य : = मत्तताहषव्यथाप्रभृतिभिः हेतुभिः, गद्गदं = गद्गदभावं, वस्वयं = विस्वरता, स्वर मङ्गमिति भावः विदुः = जानन्ति, विद्वांस इति शेषः । रागद्वेषश्रमःदिभ्यः = अनुरागाऽप्रीतिपरिश्रमप्रतिभ्यो हेतुभ्यः, गात्रस्य = शरीरस्य, कम्पः = कम्पनं, 'वेपथुः' ।। १३८ ॥
विषादमदरोषाद्य = खेदमत्तताक्रोधादिभिः हेतु भः, वर्णाऽन्यत्वं वर्णभिन्नत्वं, "विवर्णता" वैवर्ण्यमित्यर्थः। क्रोधदुःखप्रहर्षजं = कोपपीडानन्दजन्यं, नेत्रोद्भवं = नयनोत्पन्न, वारि = जलम्, "अश्रु" || १३९ ।। .
___ सुखदुःखाभ्यां = प्रमोदबाधाभ्यां हेतुभ्यां, चेष्टाज्ञाननिराकृतिः = शारीरकर्मचैतन्य ऽभावः, "प्रलयः" ।।
सात्त्विक मावानुदाहरति-तनुस्पर्शाविति । नायिकाया उपभोक्तु यकस्य स्वकीयावस्थावर्णनपरं पद्यम् । हन्तेति हर्षद्योतक मव्ययम्, अस्याः = प्रियायाः, तनु. स्पर्शात् =शरीरस्पर्शात्, नयने = नेत्रे, दरमुकुलिते = ईषन्मुद्रिते। "नयने” इत्यत्र 'ईदेद्विवचनं प्रगृह्यम्” इति सूत्रेण प्रगृह्यमज्ञायां "लुतप्रगृह्या अचि नित्यम्" इति सूत्रेण प्रकृतिभावात् “उदञ्चत्” इति पदेकदेशे परवतिनि सति सन्ध्यभावः । उदश्च. द्रोमाञ्चम् = उदञ्चन्तः ( प्रादुर्भवन्तः ) रोमाञ्चा: ( रौमविकारा: ) यस्मिस्तादृशम्,
स्वरभङ्ग ( वैस्वर्य )-मद, हर्ष और पीडा आदिसे होनेवाले गद्गदभावको 'स्वर्य ( स्वर भङ्ग )" कहते हैं।
वेपथ ---अनुराग, द्वेष, श्रम आदिसे शरीरके कम्पको "वेपथु” कहते हैं । १३८।
विवर्णता ( वैवर्ण्य)-विषाद, मद और रोष आदिसे भिन्न वर्ण होनेको "विवर्णतः ( वैवर्ण्य )" कहते हैं।
प्रश्र-क्रोध, दुःख और अधिक हर्षसे होनेवाले नेत्रजलको "अश्रु" कहते हैं। १३९। प्रलय-सुख वा दुःखसे चेष्टा और चैतन्यके अभावको "प्रलय" कहते हैं।
उदाहरण, (ग्रन्थकारका हो)-नायिकाके उपभोगसे नायकको अवस्थाका वर्णन हैं । इस ( नायिका ) के शरीरस्पर्शसे नेत्र कुछ मुद्रित हो गये हैं । संपूर्ण अङ्ग
१३ सा०