________________
तृतीयः परिच्छेदः
१९१
का पुनरसावित्याह
उक्ताः स्त्रीणामलङ्कारा अङ्गजाश्च स्वभावंजाः ।। १३३ ॥
तद्रूपाः साविका भावास्तथा चेष्टाः परा अपि ।
तद्रूपा अनुभावस्वरूपाः । तत्र यो यस्य रसस्यानुभावः स तत्स्वरूपवर्णने वक्ष्यते। तत्र सात्त्विका:
विकाराः सत्यसंभूताः साचिकाः परिकीर्तिताः ।। १३४ ।। सत्त्वं नाम स्वात्मविश्रामप्रकाशकारी कश्चनान्तरो धर्मः।
. सवमात्रोद्भवत्वात्ते मिन्ना अप्यनुभावतः ।
अनुभाभेदानिर्दिशति- उक्ता इति । स्त्रीणां = योषिताम्, उपलक्षणमेतत पुरुषाणामपि निर्देशः । अङ्गजा: = भावहावहेलाः, स्वभावजाः = लीलात आरभ्य केल्यन्ता अष्टादश अलङ्काराः, स्वभावजाः = लीलादयः, तद्रूपाः = अनुभावस्वरूपाः, सात्त्विका भावाः = स्तम्भस्वेदादयो वक्ष्यमाणाः, तथा परा अपि = अन्या अपि. याश्चेष्टाः = कटाक्षादयः, ते सर्वेऽपि, तद्रूपाः अनुभावस्वरूपा ज्ञेयाः, शोभाकान्त्यादीनां सप्तानां रत्यादिप्रकाशकत्वाऽभावान्नाऽनुभावरूपता ।
सात्त्विकभावान् लक्षयति-विकाराः। सत्त्वसंभूताः = सत्त्वाख्याऽन्तःकरण. धर्मनिष्पन्नाः, विकाराः = विकृतयः, सात्त्विकाः परिकीर्तिताः ।
विवृणोति-सत्त्वमिति । सत्त्वं नाम, स्वात्मविश्रामप्रकाशकारी= स्वस्य ( सामाजिकस्य ) आत्मनि ( अन्तःकरणे ) यो विश्रामः ( स्थितिः ), तत्प्रकाशकारी (तत्प्रकाशकरणशील: ), कश्चन, आन्तरः ( अन्तःकरणस्य ) धर्मः (गुणः) ॥१३४ ॥
सात्विकभावानामनुभावात्किञ्चिद्वलक्षण्यं प्रदर्शयति-सत्त्वमात्रोद्भवत्वाविति । ते = सात्त्विका भावाः, सत्त्वमात्रोद्भवत्वात् = केवलसत्त्वगुणजन्यत्वात् । अनुभावतः = "उबुद्धं कारणः" इत्यादिकारिकालक्षितात् अनुभावात्, मिन्ना अपि=
अनुभावको कहते हैं-पहले कहे गये स्त्रियोंके अङ्गज और स्वभावज अलङ्कार ॥ १३३ ॥
अनुभाव स्वरूप स्तम्भ स्वेद आदि सात्त्विक भाव तथा अन्य कटाक्ष आदि चष्टाए ये सब "अनुभाव" स्वरूप हैं । इनमें जो जिस रसका अनुभाव है वह उसके स्वरूप वर्णनमें कहा जायगा।
सात्विक भाव-सत्त्वगुणसे उत्पन्न, अर्थात् सामाजिकोंके अन्तःकरणमें स्थिति और प्रकाश करनेवाला अन्तःकरणका धर्म सत्व है उससे उत्पन्न रिकारोंको “सात्विक" कहते हैं ॥ १३४ ॥