________________
साहित्यदर्पणे
यो यस्य रसस्याहीपनविभावः स तस्वरूपवर्णने वक्ष्यते । अथानुभावा:
उद्बुद्धं कारणेः स्वः स्वैबहिर्भाव प्रकाशयन् ।। १३२ ॥ लोके यः कार्यरूपः सोऽनुभावः काव्यनाट्ययोः ।
यः खलु लोके सीतादिचन्द्रादिभिः स्वः स्वरालम्बनोहीपनकारणेरामादेरन्तरुबुद्धं रत्यादिकं बहिः प्रकाशयन् कार्यमित्युच्यते, स काव्यनाट्ययोः पुनरनुभावः।
कुमुदम् ( करवम् ) एव ईक्षणम् ( नेत्रम् ) यस्य तत् तादृशम्, अमरेशदिशः = इन्द्रदिशायाः प्राच्याः, नायिकायाश्च । मुखम् = अग्रभाग, वदनं न । विचुम्बति = पिबति, स्पृशति च । अत्र चन्द्रदिशो: समासोक्त्यलङ्कारेण नायकनादिकयोश्चरित्रदर्शनात उद्दीप्तस्य वक्तृशृङ्गारस्य चन्द्र उद्दीपनविभावः ।।
___अनुभावं लक्षयति-उद्बद्धमिति । स्वः स्वः = निर्जनिजः, कारण:-हेतुभिः, उबुद्ध = जनितं, भावं = रत्यादिकं, बहिः, प्रकाशयन = प्रकाशितं कुर्वन्, लोके = जने, यः, कार्यरूपः, सः, काव्यनाटययोः = श्रव्यदृश्यकाव्ययोः, अनुभावः = अनुभावरूपेण वर्ण्यते ॥ १३२॥
विवणोति । लोके बाह्यजने, सोताऽदिचन्द्रादिभिः, यथासंख्येनालम्बनोद्दीपनकारणः, रामादेः = नायकस्य, अन्तः अन्तःकरणे, उबुङ = जनितं, रत्यादिकं, बहिः= वाह्यजने, प्रकाशयन्, कार्यमित्युच्यते स काव्यनाटययोः = श्रव्यदृश्यकाव्ययोः 'पुनरनुभावः॥ कुमुदरूप नेत्रोंसे युक्त इन्द्रदिशा (पूर्वदिशा ) रूप नायिकाके मुख ( मुख का अग्रभाग) का चुम्बन करता है । यहाँपर चन्द्रमा और दिशामें समासोक्ति अलङ्कारसे नायक और नायिकाके व्यवहारका आरोप होनेसे उद्दीप्त शृङ्गारका चन्द्रमा उद्दीपन विभाव है । जो जिस रसका उद्दीपन विभाव है, वह उसके लक्षणवर्णनमें कहा जायगा।
अनुभाष-अपने अपने कारणोंसे उत्पन्न रति आदि भावको बाहर जनमें प्रकाशित करता हुआ लोकमें जो कार्यरूप है वह श्रव्यकाव्य और दृश्यकाव्य ( नाट्य ) में "अनुभाव" कहा जाता है ॥ १३२॥
जो लोकमें सीता आदि तथा चन्द्रमा आदि अपने अपने आलम्बन और उद्दीपन कारणोंसे राम आदिके अन्तःकरणमें उत्पन्न रति आदि भावको बाहरके जनमें प्रकाशित करता हुआ "कार्य" कहा जाता है वह काव्य और रूपकमें "अनुभाव" कहा जाता है।